________________
. न्यायकोशः।
१०३ गुणत्वं तु न प्रकृतसाध्यसाधने प्रयोजकम् । विशेषणमात्रस्यैव अकारणत्वस्य नित्यत्वसाधने समर्थत्वात् ( त० भा० पृ० ४६-४७)।
असमवायिकारणम् ( कारणम् ) [क] समवायिकारणे प्रत्यासन्नं
कारणम् (प्र० प्र०) (भा०प० श्लो०१८) (त० कौ० १ पृ० ८)। कार्यैकार्थ-कारणैकार्थ-एतदन्यतरप्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं ज्ञानादिभिन्नं यत् कारणं तदसमवायिकारणम् इति पर्यवसितोर्थः (मु० १ पृ० ५१ )। कार्यैकार्थप्रत्यासत्तिरत्र समवायसंबन्धेन कार्यसामानाधिकरण्यम् । कारणैकार्थप्रत्यासत्तिश्चात्र स्वसमवायिसमवायसंबन्धेन कार्यसामानाधिकरण्यम् (सि० च० १ पृ० २१)। अत्रायं सिद्धान्तः । आत्मविशेषगुणानां ज्ञानादीनां कुत्राप्यसमवायिकारणत्वं नास्ति इति ( दि० १ पृ० ५१ ) (मु० १ पृ०५०-५१) राम० १ पृ० ५०.) । तेन असमवायिकारणत्वनिरासाय ज्ञानादीनां पर्युदासः । असमवायिकारणं च कार्यस्थितौ नियामकं भवतीति बोध्यम् । [ख] कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति कारणं यत्तत् । यथा तन्तुसंयोगः पटस्यासमवायिकारणम् । तन्तुरूपं च पटंगतरूपस्यासमवायिकारणम् (त० सं० )। अत्र तन्तुसंयोगस्य पटसमवायिकारणेषु तन्तुषु प्रत्यासन्नत्वात् कारणत्वाच्च तन्तुसंयोगः पटस्यासमवायिकारणमिति ज्ञेयम् । तथा तन्तुरूपस्य परंपरया पटादौ प्रत्यासन्नत्वात् ( तन्तुरूपस्य पटरूपादिसमवायिकारणे पटे स्वाश्रयसमवेतत्वेन प्रत्यासन्नत्वात् ) कारणत्वाच्च लक्षणसमन्वयो बोध्यः ( त० कौ ०१ पृ० ८)। अत्रेदं बोध्यम्। असमवायिकारणता च गुणकर्ममात्रवृत्तिर्भवति (भा०प० श्लो०२३) इति । गुणकर्मातिरिक्ते न वर्तत इत्येव तत्तात्पर्य नतु यावगुणवृत्तिरिति । तेन ज्ञानादीनामसमवायिकारणत्वविरहेपि नोक्ति. विरोधः। एवं चासमवायिकारणता द्विविधा । कार्यैकार्थसमवायात् कारणै
कार्थसमवायात् । तत्र प्रथमा यथा आत्ममनःसंयोगस्य ज्ञानादिकं प्रति - कारणता । तन्तुसंयोगस्य च पटं प्रति । तत्र कार्येण पटेन सह कारणस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org