________________
१०२
न्यायकोशः ।
असंसर्गाग्रहः – [क] बाधग्रहः प्रतिबन्धकग्रहो वा असंसर्गः । तस्याभावः । यथा प्राभाकरमते कार्यतावाचकलिङादिपदासमभिव्याहारस्थले व्यवहार - स्त्वसंसर्गाग्रहादेवेत्यत्र (म०प्र०४ ) । [ख] भेदाज्ञानम् । यथा सांख्यमते बुद्धिपुरुषयोरसंसर्गाग्रहात्कर्तृत्वाद्यभिमान इत्यत्र ( दि० १आत्म० पृ० १०५)। केचित्तु असंसर्गस्य परस्परसंबन्धाभावस्याग्रहः अबोधः । यथा मीमांसकमते इदं रजतमित्यादौ इदम् इति रजतम् इति च ज्ञानद्वयस्यापि प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसंबन्धाभावस्याबोध इत्याहुः (वाच० ) । असत् — १ सत्तावद्भिन्नम् । यथा प्राचीन नैयायिकमते सामान्यादिचतुष्टयमसत् । २ तत्कालीन स्वजन का भावप्रतियोगि । यथा घटपटादिकार्यं स्वस्वोत्पत्तेः प्रागसत् (वै० उ० ९।१।१ ) । ३ यत् कालसामान्यासंबन्धि तत् । यथा शशशृङ्गकूर्मरोमादि इति मध्वाचार्यानुयायिनो वेदान्तिन: । ४ नामरूपाभ्यामव्याकृतं कारणात्मना स्थितं सूक्ष्मरूपमव्यक्तमिति मायावादिनः । ५ अर्थक्रियाकारि । अकिंचित्करम् अभावादिकमिति बौद्धा आहुः ( वाच० असदर्थविषयकत्वम् — विशेष्यावृत्तिप्रकारकत्वम् । यथा शुक्तौ इदं रजतम् इति ज्ञानस्य विशेष्यभूतशुक्तौ रजतत्वस्यावृत्तित्वेन असदर्थविषयकत्वम् । असद्धेतुः - ( हेतुः ) हेत्वाभासवदस्यार्थोनुसंधेयः । असमर्थविशेषणः - ( स्वरूपासिद्धः ) यद्धेतुघटकं यत् विशेषणं साध्यसाधने अप्रयोजकं भवति तद्विशेषणविशिष्टः स हेतुः । यथा शब्दो नित्यो गुणत्वे सत्यकारणत्वादिति । अत्र च गुणत्वविशिष्टमकारणत्वं हेतुः । तत्र विशेषणं गुणत्वं तु न साध्यसाधने प्रयोजकं भवति । विशेष्याकारणत्वस्यैव नित्यत्वसाधनसामर्थ्यात् ( त० भा० पृ० ४६ ) । असमर्थविशेष्यः – ( स्वरूपासिद्धः ) यद्धेतुघटकं यत् विशेष्यं साध्यसाधने अप्रयोजकं भवति तद्विशेष्यघटितः स हेतुः । यथा शब्दो नित्यः अकारणत्वे सति गुणत्वादिति । अत्र चाकारणत्वविशिष्टं गुणत्वं हेतुः । तत्र विशेष्यं
I
१ अकारीति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org