________________
न्यायकोशः। यस्मिन् किंचिदपि वस्तु समवायेन संबन्धेन न वर्तते यश्च कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन न वर्तते तत्रायमसंबन्धः । यथा समवाये अभावे च न किंचिद्वस्तु समवायेन वर्तते सोपि समवायः अभावश्च न कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन वर्तत इति समवाये अभावे चायमसंबन्धोस्ति । स च असंबन्धः समवायत्वस्य अभावत्वस्य च जातित्वे बाधक इति न्यायसिद्धान्तः । २ परस्परावच्छेद्यावच्छेदकभावापन्नविषयितानिरूपकत्वशून्यत्वम् (ग० अव०)। अयं चैकवाक्यत्वविघटको गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् इति जैमिनीसूत्रघटकासंबन्धपदस्यार्थ इति विज्ञेयम् । यथा सुन्दरः पुरुषो दण्डी इति वाक्यजन्यशाब्दबोधे पुरुषांशे दण्डसौन्दर्ययोर्विशेषणतया युगपद्भानस्वीकारे तयोः परस्परमसंबन्धः । वस्तुतस्त्वेतादृशवाक्यस्वरसात्सौन्दर्यस्य विशेष्यतावच्छेदकत्वेन दण्डस्य विशेषणत्वेन भानाङ्गीकारे नायमसंबन्ध
दोषः । अपि तु पुरुषः सुन्दरो दण्डीयादावेव तादृशदोष इति ज्ञेयम । असंभवः—(लक्षणदोषः ) १ [क] लक्ष्यमात्रावृत्तित्वम् । यथा गोरेक
शफत्वरूपलक्षणस्यासंभवः ( त० दी. १ पृ० ४ )। संबन्धविशेषावच्छिन्नलक्ष्यवृत्तित्वसामान्याभाव इत्यर्थः (नील० १ पृ० ४)। [ख] लक्ष्यतावच्छेदकव्यापकीभूतो यः अभावस्तत्प्रतियोगित्वम् ( न्या. बो० १ पृ० ३ )। यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैकशफत्वस्याभाव इति व्याप्तेरेकशफत्वाभावो लक्ष्यतावच्छेदकस्य व्यापको भवतीति तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । [ग] लक्ष्ये कापि लक्षणस्यावर्तनम् । यथा शुण्डदण्डवान् ब्राह्मण इति लक्षणस्यासंभवः । कस्यापि ब्राह्मणस्य शुण्डदण्डाभावादसंभव इति भावः (त० कौ० पृ० २१)।२ स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य लक्षणत्वे स्वरूपासिद्धथात्मको हेत्वाभासः ( त० भा० पृ० ५० )। इदं च लक्षणस्य व्यावर्तकत्वाभिप्रायेणेति विज्ञेयम् ( नील० १ पृ० ४ )। तथाहि । गौरितरेभ्यो भिद्यत एकशफत्वादित्यत्रैकशफत्वात्मकहेतोः स्वरूपासिद्धिः। एतत्प्रपश्वस्तु लक्षणशब्दव्याख्यानावसरे संपादयिष्यते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org