________________
१००
न्यायकोशः। स्वयमूह्यम् । अत्रायमाशयः । अग्रे वृक्षः कपिसंयोगी न मूले इति प्रतीत्यैकस्मिन्नप्यधिकरणे वृक्षे कपिसंयोगकपिसंयोगाभावयोरप्रमूलात्मक
प्रदेशविशेषावच्छेदेन विद्यमानत्वात्तयोरव्याप्यवृत्तित्वं संगच्छत इति । अशिष्टः–यो यदा वेदनिषिद्धकर्ता स तदा अशिष्टः । यथा बौद्धपाषण्डा
दिरशिष्टः ( चि० १ पृ० १०८-१०९)। अश्रुमुखाः-पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः ॥ तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः
(पु० चि० पृ० २९९)। अस् (धातुः ) [क] कालसंबन्धविशेषः । यथा चैत्रोस्तीत्यादौ धात्वर्थः ।
[ख] शाब्दिकास्तु स्वधारणानुकूलो व्यापारः अस्धात्वर्थ इत्याहुः (वै० सा० धा० पृ० ९० )। यदाह वाक्यपदीये-आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः॥ इति । अत्रायमाशयः । आत्मा द्विविधः । शरीरात्मा अन्तरात्मा चेति । शरीरात्मा शरीरावच्छिन्नात्मा । अन्तरात्मा अन्तःकरणावच्छिन्नात्मा । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति हेतोः अन्तरात्मना शरीरात्मनो धारणं भवति । तत्र धारणानुकूलव्यापारस्य
धात्वर्थत्वेपि फलव्यापारयोः सामानाधिकरण्येन अकर्मकत्वमुपपद्यत इति। असंगतिः-१ संगयभावः ( संदर्भाभावः) । २ वेदान्तिनस्तु आकाङ्क्षा
विरहः ( हेत्वाभासः ) इत्याहुः (प्र० च० पृ० ३० )। असंप्रज्ञातः-१ यथार्थज्ञानाविषयः। २ ज्ञेयज्ञानज्ञातृभेदशून्यो निर्विकल्प
करूपः समाधिरिति योगशास्त्रविद आहुः ( वाच०)। सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः ( सर्व० सं० पृ० ३५७ पातञ्ज०)। असंबन्धः-१ असमवेतत्वम् । यथा समवाये अभावे चासंबन्धः (नील०
१ पृ० ६)। असमवेतत्वं च प्रतियोगित्व-अनुयोगित्व-एतदन्यतरसंबन्धेन समवायाभावः (नील० १ पृ. ६) (दि. १ पृ० ३६)। अथवा प्रतियोगित्व-अनुयोगित्व-एतदन्यतरसंबन्धावच्छिन्नावच्छेदकतानिरूपितप्रतियोगिताकभेद इति (ल० व० पृ० ३)। अयमाशयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org