________________
न्यायकोशः। कपिलत्वे वर्तत इति द्रष्टव्यम् । [ख ] लक्ष्यैकदेशावृत्तित्वम् । यथा गोः कपिलत्वस्य लक्षणत्वाङ्गीकारे शुक्लगवि कपिलत्वम्याभावेन अव्याप्तिः ( त० दी० १ पृ० ४ ) । लक्षणतावच्छेदकत्वाभिमतसंबन्धेन किंचिलक्ष्यावृत्तित्वमित्यर्थः ( नील० १ पृ० ४) ।[ग] लक्ष्यैकदेशे लक्षणस्यावर्तनम् । यथा शिखासूत्रवान् ब्राह्मणः इत्यस्य लक्षणस्य संन्यासिन्यव्याप्तिः । संन्यासिनः शिखासूत्रवत्त्वाभावादिति भावः (त० कौ० पृ० २१)। २ भागासिद्धत्वम् । यथा गोर्लक्षणस्य शबलत्वस्य भागासिद्धिः (त० भा० पृ० ५०) (नील० १ पृ० ४)। इदं च लक्षणस्य व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु लक्षणशब्दव्याख्यानावसरे
संपादयिष्यते । ३ हेत्वाभासविशेषः । हेत्वाभासशब्दव्याख्याने दृश्यम् । अव्याप्यवृत्तिगुणत्वम् –अव्याप्यवृत्तिवृत्तिर्गुणत्वव्याप्या च या जातिस्तादृशजातिमत्त्वम् (दि० गु० पृ० १९४ )। तादृशी जातिस्तु बुद्धित्वशब्दत्वादिः। अव्याप्यवृत्तिगुणा द्विविधाः दैशिकाव्याप्यवृत्तयः कालिकाव्याप्यवृत्तयश्चेति । तत्र दैशिकाव्याप्यवृत्तयो बुद्ध्यादयोष्टौ शब्दः भावना संयोगः विभागश्चेति । एते गुणाः प्रादेशिकगुणा इत्यपि व्यवह्रियन्त इति बोध्यम्। कालिकाव्याप्यवृत्तिगुणास्तु रूपादयः इति विज्ञेयम्। अव्याप्यवृत्तित्वम्-स्वात्यन्ताभावसमानाधिकरणत्वम् (त० दी० १ पृ० १३ ) (मू० म०) (ग०)। यथा वृक्षे कपिसंयोगतदत्यन्ताभाव- . योरव्याप्यवृत्तित्वम् । यथा वा संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमते पर्वते वह्नितदभावयोरव्याप्यवृत्तित्वम् । स्वात्यन्ताभावसमानाधिकरणत्वमित्यस्य खस्यात्यन्ताभावेन सहकाधिकरणे वर्तमानत्वमित्यर्थः। स्वप्रतियोगित्वस्वसामानाधिकरण्य-एतदुभयसंबन्धेनाभाववत्त्वमिति निष्कर्षः (नील०१ पृ० १३)। तदर्थश्च स्वशब्देन कपिसंयोगाभावो गृह्यते । स्वस्य प्रतियोगी
कपिसंयोगस्तत्त्वं कपिसंयोगे वर्तते । तथा स्वसामानाधिकरण्यमपि वर्तते। । स्वस्य कपिसंयोगाभावस्य सामानाधिकरण्यमेकाधिकरणे वर्तमानत्वम् । .' तथा चैतादृशोभयसंबन्धेन कपिसंयोगाभाववत्त्वं कपिसंयोगे वर्तत इति १कपिसंयोगः अव्याप्यवृत्तिर्भवति। एवं कपिसंयोगाभावेप्यव्याप्यवृत्तित्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org