________________
न्यायकोशः। दित्यादौ लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्त्वमात्मन्यसिद्धम् । तथा च तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेनात्मनि क्रियावत्त्वं साध्यते तथा तादृशेन क्रियावत्त्वेन तजनकगुणवत्त्वमपि किमिति न साध्यते । नियामकाभावादिति ( नील० पृ० ४३ )। अवश्यक्लप्तत्वम् -लघूपस्थितिकत्वम् । यथा पाकजस्थले गन्धं प्रति जनकत्वे
गन्धप्रागभावस्य ( गन्धं प्रति रूपप्रागभावस्य जनकत्वमपेक्ष्य ) अवश्यक्लप्तत्वम् । अवश्यम्-१ अप्राप्त्यभावः । यथा एतेष्वावश्यकस्त्वसौ ( भा० ५० श्लो० २२) इत्यादौ । २ अशक्यनिवारणम् । ३ निश्चय इत्यपि
केचित् ( वाच० )। . अवसरः-( संगतिः ) [क] प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या अनन्तरवक्तव्यत्वम् । यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयोरुभयोर्निरूपणप्राप्तौ बहुवादिसंमतत्वेन प्रथममनुमान एव जिज्ञासोदयेनानुमाननिरूपणेन प्रतिबन्धकजिज्ञासानिवृत्ताववसरसंगत्योपमाननिरूपणम् (राम० ३ पृ० १७०)। [ख] प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालावच्छिन्नावश्यवक्तव्यत्वम् (वै० सा० द०)। [ग] प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वम् । यथा अनुमाननिरूपणानन्तरं तादृशजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानात् किं वक्तव्यम् इति श्रोतुर्जिज्ञासानन्तरमुपमाननिरूपणम् इति । [घ] जिज्ञासितार्थसिद्धत्वमिति केचित् ( भवा० )। अवस्था-१ कालकृतः परिणामः । सा चावस्था जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति भावविकारः षड्विध इति यास्को वक्ति। अविद्यास्मितारागद्वेषाभिनिवेशभेदेन पञ्चविधेति योगिनः । अनागतावस्था अभिव्यक्त्यवस्था तिरोहितावस्थेति त्रिविधेति सांख्याः। जाग्रत्स्वप्रसुषुप्तिरूपास्तिस्रोवस्थाः चतुर्थी मोक्षावस्था चेति चतुर्विधेति वेदान्तिनः। जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेर्विषयाकारः परिणामः । स्वप्नावस्था , अस्मिता इति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org