________________
न्यायकोशः। धर्मस्तद्वत्त्वम् (ग०अव०)। [५] प्रतिज्ञाद्यघटकत्वे सत्युभयघटकभागद्वयाघटितत्वम् (दीधि० २ पृ० १६६ )। प्रतिज्ञाद्यघटकत्वं च मिलितभेदपञ्चकानुयोगितावच्छेदकभिन्नधर्मवत्त्वम् (ग० अव०)। उभयं च प्रतिज्ञाहेतू हेतूदाहरणे उदाहरणोपनयौ उपनयनिगमने इति विशिष्य वक्तव्यम् (दीधि०२ पृ०१६६)। यथा पर्वतस्य पक्षत्वे वः साध्यत्वे धूमस्य हेतुत्वे पर्वतो वह्निमान् इति प्रतिज्ञावाक्यस्य धूमात् इति हेतुवाक्यस्य चावयवत्वम् । एवमुदाहरणादेरप्यवयवत्वं ज्ञेयम् । [3] प्रतिज्ञादिप्रतिपाद्यतत्तद्विशिष्टार्थविषयकज्ञानपञ्चकान्यतमज्ञानजनकवाक्यत्वमित्यपि
केचित् ( दीधि० अव० पृ० १६६)। अवयवि-जन्यद्रव्यम् (त० दी० पृ० ४० )। यथा घटपटादि । अवरुद्धा—(दासी) दास्य एव स्वामिना शुश्रूषाहानिव्युदासाथ गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो . निरुद्धा अवरुद्धाः ( मिताक्षरा
२।२९)। अवरोधः-गतिप्रतिरोधहेत्वावरणम् । यथा गामवरुणद्धि व्रजमित्यत्रावरु
धेरर्थः (श०प्र०पृ०९९)। अत्रं गोगतिप्रतिरोधस्यानुकूलं यद्जस्यावरणं तस्कृतिमानित्यन्वयः ( श० प्र० पृ० ९९)। अवर्ण्यसमः-(जातिः) [क] स्थापनीयो वर्ण्यः । विपर्ययादवर्ण्यः । तावेतौ साध्यदृष्टान्तधर्मों विपर्यस्यतो वावर्ण्यसमौ भवतः (वात्स्या०५।१।४)। अत्रावर्ण्यत्वेन समः अवर्ण्यसम इति व्युत्पत्तिः। असिद्धिदेशनाभासोयम्। [ख] अवर्ण्यत्वं संदिग्धसाध्यकत्वाभावः ( गौ० वृ० ५११६४ ) । पक्षे असंदिग्धसाध्यकत्वापादनम् । दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव गमक इत्यभिमानेनैवमापादनम् । दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः स चेन पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यादतस्तादृशो हेतुरवश्यं पक्षत्वाभिमते स्वीकार्यः । तथा च संदिग्धसाध्यकत्वलक्षणपक्षत्वाभावा। दाश्रयासिद्धिः (गौ० वृ० ५।१।४)। [ग] साध्यहेत्वोधर्मयोरपि पक्षे
तुल्यतया साधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टव, तुल्यतासाधनमिति पाठान्तरम् ( नील• पृ. ४३)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org