________________
न्यायकोशः। सर्व समञ्जसम् । २ सामानाधिकरण्यम् । यथा वह्निव्याप्यधूमवान्पर्वतः इति परामर्शनिरूपितयोधूमनिष्ठविषयतयोरवच्छेद्यावच्छेदकभावः । अत्रेदं बोध्यम्-मध्यवृत्तिविषयतयोर्भेदपले पर्वतत्वावच्छिन्नविशेष्यतानिरूपितधूमनिष्ठप्रकारत्वस्य व्याप्तिनिष्ठप्रकारतानिरूपितधूमत्वावच्छिन्नविशेष्यत्वस्य च परस्परमवच्छेद्यावच्छेदकभावः सामानाधिकरण्यात्मकः स्वीकृत इति । ३ स्वरूपसंबन्धविशेषः । यथा अग्रे वृक्षः कपिसंयोगी न मूले इत्यादौ कपिसंयोगस्यानावच्छिन्नत्वम् । वृक्षसंबन्ध्यग्रभागवृत्तित्वमित्यर्थः । ४ विशिष्टत्वम् । यथा घटत्वावच्छिन्नो घट इत्यादौ घटस्य घटत्वावच्छिन्नत्वम् । ५ साहित्यम् । यथा शरीरावच्छिन्न आत्मनि भोगो जायत इत्यादौ आत्मनः शरीरावच्छिन्नत्वम् । ६ अनुकूलत्वम् प्रयोजकत्वं वा। यथा फलावच्छिन्नव्यापारो धात्वर्थ इत्यादौ व्यापारस्य फलावच्छिन्नत्वम् । ७ संबन्ध इति शाब्दिका वदन्ति (वै० सा० द०)। ८ इयत्ताकरणम् । यथा द्रोणावच्छिन्नो व्रीहिरित्यादौ । ९ सीमाकरणम् । यथा गृहावच्छिन्न आकाशः कर्णशष्कुल्यवच्छिन्न आकाश इत्यादौ । एवमन्तःकरणावच्छिन्नं
चैतन्यं जीव इपि मायावादिमतेपि ज्ञेयम् ( वाच० )। अवच्छेदः-१ प्रतियोगी । यथा अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनादित्यादौ ( कु० ३ श्लो० २२ टी० )। २ व्याप्तिः। पक्ष पक्षतावच्छेदकावच्छेदेन साध्यसिद्धावित्यादौ साध्यनिरूपिता पक्षतावच्छेदकनिष्ठा व्याप्तिः । अत्र व्यापकत्वमप्यवच्छेदशब्दस्यार्थः संभवति । तथा च पक्षतावच्छेदकव्यापकत्वविशिष्टसाध्यसिद्धौ इति बोधः। ३ इयत्ताकरणम् । यथा अग्रावच्छेदेन कपिसंयोगः मूलावच्छेदेन कपिसंयोगाभाव इत्यादौ । ४ अवधारणम् । यथा शब्दार्थानामवच्छेदे ( शब्दार्थस्यानवच्छेदे ) विशेषस्मृतिहेतव इत्यादौ । ५ इयत्ताकरणसाधनम् । यथा अग्रे वृक्षः कपिसंयोगी न मूल इत्यादी संयोगादेरव्याप्यवृत्तित्वनियामको वृक्षकावयवो मूलाग्रादिप्रदेशः ( वाच०)। यथा वा इदानीं चत्वरे गौर्नास्तीत्यादावेतत्कालोप्यवच्छेदो भवति । अत्रार्थे अवच्छिद्यतेनेनेति करणे घञ् । तेनावच्छेदकशब्दार्थः संपन्न इति ज्ञेयम् । ६ संकोचः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org