________________
न्यायकोशः। अवच्छेदकत्वम्-१ स्वरूपसंबन्धविशेषः। स च क्वचित् [क] प्रति
योग्यंशप्रकारीभूतधर्मत्वम् । यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं धूमत्वे । अत्रायं नियमः-संभवति लघौ गुरौ तदभाव इति । तेन गुरुभूते प्रमेयत्वविशिष्टधूमत्वेवच्छेदकत्वमनादृत्य शुद्धधूमत्व एवावच्छेदकत्वं स्वीकृतमिति ज्ञेयम् । समानाधिकरणयोरेव धर्मयोरवच्छेद्यावच्छेदकभाव इति सामान्यनियमो बाहुल्येन प्रवर्तत इत्येतत्सुधिभिश्चिन्त्यम् । क्वचित् [ख] अनतिरिक्तवृत्तित्वम् । लञ्च द्विविधम् । तत्राद्यम्-तच्छ्न्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रतियोगित्वम् । यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । अत्रायं नियमःअन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वम् इति । तेनातिरिक्तवृत्तिद्रव्यत्वादौ घटाभावीयप्रतियोगिताया अवच्छेदकत्वनिरासः। अनतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं च यद्यपि न स्वरूपसंबन्धरूपावच्छेदकत्वेन्तर्भवेत्तथाप्युदाहरणानुरोधेन तत् अन्तर्निवेशितम् । वस्तुतस्तु तत्तनिष्ठमवच्छेदकत्वं च तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् । द्वितीयं तु व्यावर्तकत्व-सामानाधिकरण्य-स्वनिष्ठावच्छेद्यताकत्व-एतत्रितयसंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेदकत्वं दण्डत्वे । अत्र च इतरभेदानुमितिजनकज्ञानविषयत्वात्मकव्यावर्तकतायामवच्छेदकस्तु परंपरासंबन्धो बोध्यः। कचित् [ग] तदधि
करणस्य तनिष्ठधर्मावच्छेदकत्वम् । यथा मूले वृक्षे न कपिसंयोगः किं तु . शाखायामित्यादी वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगाभावा
वच्छेदकत्वम् वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेदकत्वं च .. (ल० व० पृ० २२)। अत्रावच्छेदकत्वं च स्वाश्रयसंबन्धित्वम् ।
स्वम् अवच्छेद्यत्वेनाभिमतः कपिसंयोगाभावादिः । यथा वा इह पर्वते नितम्बे हुताशनः न शिखर इत्यत्र नितम्बरूपदेशस्य हुताशनावच्छेदकत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्वं च । अत्रायं विशेषःसंयोगेन द्रव्यस्याव्याप्यवृत्तित्वमिति मत एतस्यावच्छेदकत्वम् इति । यथा वा इदानीं चत्वरे गौ स्तीत्यादावेतत्कालेपि गवाभावस्यावच्छेदक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org