________________
૮૨
न्यायकोशः ।
शिष्टाचारविषयत्वात् दर्शादिवत् ( मू० म० मङ्ग० १ पृ० १६ ) इत्यादावाचारस्य मङ्गलस्य वा अलौकिकत्वम् । [ ख ] उपाध्यायास्तु लोकावगतबलवदनिष्टाननुबन्धित्व विशिष्टेष्टसाधनताश्रयान्यत्वम् इत्याहुः ( मू० म० मङ्ग० १ पृ० १७ ) । [ग] रागतोप्राप्तत्वमित्यस्मद्गुरुचरणाः प्राहुः । [घ] वेदबोधितेष्टसाधनताकत्वमिति मीमांसकाः ( मू० म०१ ) ।
अलौकिकप्रत्यक्षम् - ( प्रत्यक्षम् ) अलौकिक संनिकर्षजन्यं प्रत्यक्षम् । अत्र
संनिकर्षे अलौकिकत्वं च सामान्यलक्षणज्ञानलक्षणयोगज एतदन्यतमत्वम् । विषयताविशेषो वा । यथा धूमत्वज्ञानानन्तरं सामान्यलक्षणप्रत्यासत्त्या जायमानं सर्वे धूमा धूमत्ववन्तः इति धूमत्वाश्रयसकलधूमविषयकं प्रत्यक्षम् ( मु० १ पृ० १२७ ) ।
अवकीर्णी — ब्रह्मचारी सन् स्त्रीरत: ( जै० सू० वृ० ६।८।२४ ) । अवक्षेपणम् – (कर्म) अपक्षेपष्णवदस्यार्थोनुसंधेयः ।
अवगाहः —— अन्यवस्तु प्रदेशमध्ये अन्यस्य वस्तुनः प्रवेशोवगाहः ( सर्व०
-
सं० पृ० ७१ आई० ) ।
1
अवगाहनम् - [क] विषयिता । यथा घटवद्भूतलम् इति ज्ञानं घटायवगाहीत्यादाववगाहनं विषयिता भवति । [ ख ] विषयीकरणमित्यपि केचिद्वदन्ति ।
अवचरः — साधनम् (जै० सू० वृ० ३।१।२१ ) ।
-
अवच्छिन्नत्वम् – १ व्यापकत्वम् ( मू० म० १ ) । यथा हदे वह्निमत्ताबुद्धिनिरूपित प्रतिबन्धकतायां हृदो न वह्निमान् इति निश्चयीयविषयिताया अवच्छिन्नत्वम् ( ग० सामा० ) । अवच्छिन्नत्वावच्छेदकत्वयोः ( स्वरूप संबन्धरूपयोः ) तुल्यवित्तिवेद्यत्वेन साकाङ्क्षत्वेन च परस्परं निरूप्यनिरूपकभावो बोध्यः । तथा चावच्छेदकतानिरूपकता कत्वमेवावच्छिन्नत्वमित्युक्त्यैव निर्वाहेवच्छिन्नत्वनिरुक्तिः शिष्यबुद्धिवैशद्यायेति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org