________________
न्यायकोशः। अलंकारः-१ शब्दार्थभूषणमनुप्रासोपमादिः । स च बहुविधः । अत्रालंकारत्वं च रसादिभिन्नं यद्व्यङ्गयं तद्भिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयतासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् इति । अत्र अनुप्रासादिविशिष्टशब्दज्ञानात् उपमादिविशिष्टार्थज्ञानाञ्च चमत्कृतिर्जायत इति लक्षणसमन्वयो बोध्यः (अलंकारचन्द्रिका)। अलंकाराणां च शोभातिशायित्वमुक्तम्——शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः। रसादीनुपकुर्वन्तोलंकारास्तेङ्गदादिवत् ॥ इति ।
२ हारादिभूषणमलंकार इति काव्यज्ञा वदन्ति । अलब्धभूमिकत्वम्-कुतश्चिन्निमित्तात्समाधिभूमेरलाभः ( सर्व० सं० - पृ० ३५५ पातञ्ज ० )। अलम्-१ समर्थम् । यथा सुखायालं भोजनमित्यादौ । अत्र अलमादिपदार्थैकदेशे सामर्थ्य सुखादिनिरूपितत्वं चतुर्थ्या बोध्यते । २ वैफल्यम्।
यथा अलमनेनेत्यादौ ( श० प्र० पृ० १२६ )। ....... अलीकत्वम्-१ ज्ञानाविषयत्वम् । यथा शशशृङ्गादेरलीकत्वम् । अत्र
वेदान्तिनस्तु शशशृङ्गकूर्मरोमादीनि तुच्छशब्देन व्यवहरन्तीति बोध्यम् । २ अन्यव्यावृत्तिः। यथा नास्तिकमते अयं घटः इति ज्ञाने विषयीभूतस्य घटत्वादेरलीकत्वमित्यत्र । अयं भावः । अघटव्यावृत्तिरेव घटे घटत्वम् न तु भावरूपम् । अभावस्तु तुच्छ एवेति नास्तिकैरभ्युपगम्यते इति ( म० प्र० १ पृ. ९)। अत्र नैयायिकाः नास्तिकमते शशशृङ्गाद्यलीकमसत्ख्यात्या सिध्यति । सा चासत्ख्यातिर्नोपपद्यते । ज्ञानविषयत्वस्यास्तित्वव्याप्यतया असत्ख्यातिविषयत्वस्य संनिकृष्टभेदप्रतियोगिताव
च्छेदकत्वासिद्धेरित्याहुः ( म० प्र० पृ० १७ )। अलौकिकत्वम्-[क] लोकावगतेष्टसाधनताश्रयान्यत्वम् । अत्र लोकशब्दार्थश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा नमस्कारादिकं मङ्गलं वेदंबोधितसमाप्तिसाधनताकम् समाप्त्युद्देश्यकालौकिकाविगीत
न्या० को० ११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org