________________
न्यायकोशः। वा-अनित्यः शब्दो निरोधधर्मको ध्वान इति ( वात्स्या० ५।२।१४ )। [ख] अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् (गौ० ५।२।१५)। पुनरुक्तमिति प्रकृतम् । निदर्शनम् । उत्पत्तिधर्मकत्वादनित्यमित्युक्त्वा अर्थादापन्नस्य योभिधायकः शब्दस्तेन स्वशब्देन ब्रूयादनुत्पत्तिधर्मकं नित्यमिति । तच्च पुनरुक्तं वेदितव्यम् । अर्थसंप्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोर्थोपत्त्येति ( वात्स्या० ५।२।१५) । [ग] यस्मिन्नुक्ते यस्यार्थस्यौत्सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुनरुक्तम् । इदमेव चार्थपुनरुक्तमिति गीयते । यथा वह्निरुष्ण इति । पूर्वपदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तरपदाक्षिप्तोक्तिः । एवं बहिरस्ति गेहे नास्ति इति विध्याक्षिप्तोक्तिः । जीवन्गेहे नास्ति बहिरस्ति इति निषेधाक्षिप्तोक्तिः ( गौ० वृ० ५।२।१५)। अर्थवादः—(शब्दः) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं
वचनमित्यर्थः । अर्थवादो हि स्तुत्यादिद्वारा विध्यर्थं शीघ्रं प्रवृत्तये प्रशंसति ( गौ० वृ० २।१।६३ ) । निषिद्धार्थं शीघ्रं निवृत्तये निन्दति च । स चायं अर्थवादः लोके वेदे च समानः (त० कौ० ४।१७)। तत्र लौकिकः-ओदनकामस्तण्डुलं पचेत तृप्तिकामस्तण्डुलौदनं भुञ्जीतेत्यादौ विध्यर्थस्य तण्डुलपाककरणस्य तण्डुलौदनभोजनरूपस्य च स्तावकं तण्डुलपाक ऋषिभिः पूर्व स्वर्गाद्यथं कृतः ओदनममृतम् इत्यादि वाक्यम् । एवं कफज्वरपीडितो दुग्धं न पिबेदित्यादिनिषेधविधिस्थलेपि दुग्धपानस्य निन्दकं पशुभिर्भक्षितेनापथ्यतृणादिना दुग्धं जन्यते तच्च विषरूपमित्यादिकं वाक्यम् । वैदिकोदाहरणानि त्वनुपदं प्रदर्श्यन्ते । अर्थवादश्च विधिनिषेधभिन्नः शब्दः । यथा-आदित्यो यूपः अग्निर्हिमस्य भेषजम् वज्रहस्तः पुरंदर इत्यादि ( त० कौ० ४ पृ० १७)। अत्राद्यं गुणवादोदाहरणम् । द्वितीयमनुवादोदाहरणम् । तृतीयं भूतार्थवादोदाहरणम् । प्राशस्त्यनिन्दान्यतरपरं वाक्यं चार्थवादः ( लौ० भा० )। यथा वायुर्वै क्षेपिष्ठा देवतेत्यादिः । सोरोदीदित्यादिर्वा । अत्र च वायव्य५ श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org