________________
न्यायकोशः। तदुक्तं प्रशस्तदेवाचार्यैः-त्रयाणामर्थशब्दाभिधेयत्वं च इति (वै० उ० ८।२।३ )। [ख] अर्थ इति शब्दो द्रव्यगुणकर्मसु वर्तते। स च तत्र । पारिभाषिकः । गौतमीये तु गन्धरसरूपस्पर्शाः पृथिव्यादिगुणास्तदर्थाः ( गौ० १।१।१४ ) इत्युक्तम् । अतः पञ्चेन्द्रियग्राह्येषु पञ्चसु गुणेष्वपि अर्थशब्दस्य परिभाषान्तरं समानतत्रसिद्धम् (वै० वि० ८।२।३ )। २ यत्परः शब्दः सः (चि०)। यथा षट् पदार्थाः । ते च द्रव्यगुणकर्मसामान्यविशेषसमवायाः ( त० भा० २७ ) (.वै० १।१।४)। प्रमाणादयोर्था गौतमसूत्रपठिताः षट्स्वेवान्तर्भवन्ति । प्रयोजनवशात्तु भेदेन निरूपिता इति बोध्यम् ( त० भा० २७ )। अयं च शब्दार्थ इत्युच्यते (चि० ४) (ग० शक्ति० ) । अयमर्थो नैयायिकमते द्विविधः । वाच्यः लक्ष्य इति । व्यङ्गयोपि तृतीयोर्थ इत्यालङ्कारिका आहुः ( काव्य० २)। वृत्त्या पदप्रतिपाद्यः अर्थ इत्युच्यते (ग० शक्ति० ) । यथा घटशब्दस्यार्थः कम्बुग्रीवादिमान् । ३ प्रकारः ( वाक्य० ) । यथा अर्थाबाधो योग्यतेत्यादावर्थः प्रकारः । अत्र जलेन सिञ्चतीत्यादौ जलकरणकत्वरूपप्रकारकस्य सेचनक्रियायामबाध इति बोध्यम् । ४ निवृत्तिः । यथा-अनुमानं परार्थमित्यादौ ( चि० अव० २७६ ) । अत्र परस्य मध्यस्थस्यार्थः संशयस्य निवृत्तिर्यस्मादिति व्युत्पत्त्यानुमानस्य संशयनिवृत्तिफलकत्वरूपं परार्थत्वं युज्यत इति बोध्यम् । ५ यदाकाया यत्प्रवर्तते स ( फलम् ) तस्यार्थः (मू० म० १)। ६ विधिजन्यबोधविषयः ( धर्मः) अर्थ इति मीमांसका आहुः । ७ धनमर्थ इति लौकिकजना वदन्ति । ८ विषयः। तथा चोक्तम्अर्थाः स्युरिन्द्रियग्राह्याः इति ( ता० र० श्लो० २९)। अर्थनिश्चयप्रसङ्गः-तत्कार्यनिष्कम्पप्रवृत्त्यादिप्रसङ्गः ( ग० बाध० )। अर्थपुनरुक्तम्- (निग्रहस्थानम् ) एतस्य प्रमादादिना संभवः (गौ०
वृ० ५।२।१४ )। [क] अर्थस्य पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् (गौ० ५।२।१४ )। समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं पुनरभिधानम् । यथा घटः कलश इति ( गौ० वृ० ५।२।१४)। यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org