________________
न्यायकोशः। यथा शुक्तौ इदं रजतम् इति ज्ञानम् । एतानि च पूर्वोक्तानि लक्षणानि स्मृतिसाधारणान्यपि भवन्ति इति बोध्यम् । शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसत्ख्याति वाचस्पतिमिश्रा अङ्गीचक्रुः ( सि० च० १११९) । मीमांसकास्तु अयथार्थज्ञानमेवाप्रसिद्धम् । पुरोवर्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने
प्रवृत्त्युपपत्तरिति वदन्ति ( सि० च० १।१९)। अयथार्थानुभवः-अप्रमावदस्यार्थीनुसंधेयः (मु० ) ( सि० च०)। अयनम्-ऋतुत्रयं चायनं स्यात् ( विष्णुध० ) ( पु० चि० पृ० ९)। अयाचितम्-[क] संकल्पोत्तरं याञ्चां विना लब्धस्य दिने रात्रौ वा
भोजनयोग्यकाले सकृद्भोजनम् । अयाचितालाभे उपवासः । एतदन्यतरदयाचितस्वरूपम् । [ख] याचनां विना अन्येन दत्तस्य भोजन
मयाचितम् (पु० चि० पृ० ४९)। अयुतसिद्धम् –ययोर्द्वयोर्मध्य एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । नाशपूर्वक्षणपर्यन्तमित्यर्थः । अत्रेदं बोध्यम्-न घटाद्यवयवी कपालाद्यवयवासंबद्धः सन् तिष्ठति (वै० वि० ७।२।१३ )। अवयव्यादयो हि अविनश्यन्तोवयवाद्याश्रिता एवावतिष्ठन्ते । अवयवादिनाशानन्तरं विनश्यन्तस्तु क्षणमात्रं निराश्रिता एवावतिष्ठन्त इति ( त० कौ० २०)। अयुतसिद्धौ च पञ्चविधौ । यथा-अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति
(त० सं०) ( त० कौ० २० ) ( त० भा० पृ० ३ )। अर्कदैवत्यम्-(नक्षत्रम्.) हस्तः ( पु० चि० पृ० ३५७ )। अर्चा- प्रतिमादयः ( सर्व० सं० पृ० ११५ रामानु० )। अर्जनम् -स्वत्वजनकव्यापारः । यथा याजनाध्यापनप्रतिग्रहैर्द्विजो धन___ मर्जयेदिति श्रुतौ धात्वर्थः ( श० प्र० ८५ )। अर्थः-१ अर्थ इति द्रव्यगुणकर्मसु (वै० ८।२।३)। एतस्य व्याख्या
[क] एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम् । तेन तेषु त्रिषु वैशेषिकाणामर्थ इति परिभाषा । अर्थपदेन त्रयाणामुपस्थितेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org