________________
न्यायकोशः। अस्तु द्रव्यं शब्द इति (वात्स्या० १।१।३१)। यथा वा सूत्रकृताभ्युपगतमित्यादावभ्युपगमः ( गौ० वृ० १११।३१ )। अभ्युपगमसिद्धान्तः—(सिद्धान्तः ) [क] अपरीक्षिताभ्युपगमात्तद्विशेष
परीक्षणमभ्युपगमसिद्धान्तः ( गौ० १।१।३१)। यत्र किंचिदर्थजातमभ्युपगम्यते-अस्तु द्रव्यं शब्दः स तु नित्योथानित्य इति द्रव्यस्य सतो नित्यता अनित्यता वा तद्विशेषः परीक्ष्यते सोभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाच्च प्रवर्तत इति ( वात्स्या० १।१।३१ )। [ख] साक्षादसूत्रिताभ्युपगमः । यथा मनस इन्द्रियत्वमिति (गौ० वृ० १११।३१)। [ग] तत्रान्तरसिद्धः स्वयमभ्युपगतः । यथा वैशेषिकाभ्युपगतस्य मनसीन्द्रियत्वस्य नैयायिकेनाभ्युपगम
इति । अमर्षः– ( दोषः ) कृतापराधे असमर्थस्य द्वेषः (गौ० वृ० ४।१।३ )। अमावास्या—सूर्याचन्द्रमसोर्यः परः संनिकर्षः सा तिथिः (पु०चि०३३)। अमूर्तगुणत्वम्-[क] मूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च या • जातिस्तच्छ्न्य गुणत्वम् । अत्र तादृशी जातिः रूपत्वरसत्वादिर्भवति ।
तच्छ्न्य त्वं बुद्धयादौ वर्तत इति लक्षणसमन्वयः । अमूर्तगुणाश्च बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दश्चेति दश सन्ति ( भा० प० गु० १९२ )। [ख] मूर्तताभावव्याप्यतावच्छेदिका परिमाणावृत्तिश्च या जातिस्तद्वत्त्वम् ( दि० गु० १९२ )। यत्र यत्र बुद्ध्यादयः अमूर्तगुणास्तत्र तत्र मूर्तत्वाभाव इति नियमेन बुद्धित्वसुखत्वादिजातिमूर्तत्वाभावस्य व्याप्यतावच्छेदिका भवतीति बोध्यम् । [ग] मूर्तावृत्तिः संख्यादिपञ्चकभिन्नो यो गुणस्तत्त्वम् (ल०व०३६)। अयथार्थबुद्धिः—(बुद्धिः) [क] अर्थव्यभिचार्यप्रमाणजन्यं ज्ञानम्
(त० भा० )। अत्रायथार्थत्वं च तदभाववति तत्प्रकारकत्वम् । - [ख ] प्रमाणाभासजन्यं ज्ञानम् (त० कौ० ६)। [ग] तच्छ्न्ये
तन्मतिः (भा० प० गु० श्लो० १२८)। [घ ] यत्र यन्नास्ति तत्र । तस्य ज्ञानम्। [3] तदभाववति तत्प्रकारकं ज्ञानम् ( चि० १३१०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org