________________
७८
न्यायकोशः। वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति । ( कृष्णयजु:संहिता २।१।१ ) इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो हि वायव्य श्वेतमालभेतेत्यादिविधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको यागः प्रशस्तः इति प्रशंसतीति विज्ञेयम् । सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् (कृष्णयजुः० १।५।१ ) इति वाक्यं तु क्रतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धं रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादश्चतुर्विधः । स्तुतिः निन्दा परकृतिः पुराकल्पः (गौ० २।११६४ )। प्रकारान्तरेण स त्रिविधः । गुणवादः अनुवादः भूतार्थवादश्चेति (म्या० म० ४ पृ० ३० )। तदुक्तम्-विरोधे गुणवादः स्यादनुवादोवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ( न्या० म० ४ पृ० ३१)। मीमांसकास्तु विधिशेषः निषेधशेषश्चेत्यर्थवादं द्वैविध्येन विभेजिरे
( लौ० भा० )। अर्थान्तरम्—(निग्रहस्थानम् ) [क] प्रकृतादादप्रतिसंबद्धार्थमर्था
न्तरम् ( गौ० ५।२।७)। यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् । नित्यः शब्दः अस्पर्शत्वादिति हेतुः । हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम् । पदं च नामाख्यातोपसर्गनिपाताः अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम । क्रियाकारकसमुदायः । कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् । धात्वर्थमात्रं च कालाभिधानविशिष्टम् । प्रयोगेष्वर्थादभिद्यमानरूपा निपाताः । उपसृज्यमानाः क्रियावद्योतका उपसर्गाः इत्येवमादि । तदर्थान्तरं वेदितव्यम् ( वात्स्या० ५।२।७ ) ( नील० पृ० ४५ )। [ख] प्रकृतोपयुक्तमर्थमुपेक्ष्यासंबद्धार्थाभिधानम् । प्रकृतानाकासिताभिधानमिति फलितार्थः । यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो गुणः स चाकाशस्येत्यादि (गौ० वृ० ५।२।७ ) (त० भा० पृ० ५१)
( दि. १ पृ० २२)। अर्थापत्तिः -- ( अनुमानम् ) [क] वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद्रहणमर्थापत्तिः ( वात्स्या० २।२।२)। [ख] अनु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org