________________
न्यायकोशः। पूर्व-कालव्यापकत्वं चैत्रोत्तरकालावृत्तित्वसहितं शीतभावने यावच्छब्देन प्रत्याय्यते (ग० व्यु० का० २ ख० २ पृ० ७६ )। द्वितीयं यथाकाशीतः पाटलिपुत्रं यावद्वृष्टो देव इत्यादौ । अत्र काशीप्रभृतिपाटलिपुत्रान्तदेशव्यापकत्वं वृष्टौ प्रतीयते । अत्र काशीपश्चिमदेशपूर्व-पाटलिपुत्रपूर्वदेशपश्चिम-देशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावच्छब्देन प्रत्याय्यते । विशेषः पूर्ववत् ( मर्यादाशब्दव्याख्यानोक्तरीत्या ) द्रष्टव्यः (ग० व्यु० का० २ ख० २ पृ. ७६ ) । अनयोः दैशिककालिकयोरभिविध्योः तात्पर्यवशात्कदाचिद्वयापकत्वं तद्भिन्नकालावृत्तित्वविशिष्टं तद्भिन्नदेशावृत्तित्वविशिष्टं च प्रतीयत इति बोध्यम् (ल० म० ११३)। अभिव्याप्तिः-१ अभिविधिः । स च तदारम्भकयावदवयवावच्छेदेन तत्संयुक्तत्वम् । यथा-गृहं यावद्धनं तवेत्यत्र यावदित्यस्यार्थः । अत्र गृहाभिव्याप्तं तद्धनम् इत्याकारो बोधः (श० प्र० ११७)। २ तद्वृत्त्यधिकरणता-(मासवृत्त्यधिकरणता-)वच्छेदकीभूतयावत्त्वपर्याप्त्यधिकरणकालवृत्तित्वम् तथाविधयत्किचिद्यावत्त्वव्यापकं वा । यथा मासं सुप्यत इत्यादौ मासादेरभिव्याप्तिद्धितीयार्थः । अत्र कालाध्वनोरत्यन्तसंयोगे (पा० सू० २।३।५) इत्यनेन द्वितीया । मासाभिव्याप्तः स्वापः इति बोधः ( श० प्र० ११७ ) । देशविषये तु तद्वृत्त्यधिकरणता-( क्रोशगम्यदेशवृत्त्यधिकरणता- )वच्छेदकीभूतयावत्त्वपर्याप्त्यधिकरणदेशवृत्तित्वम् तथाविधयत्किचिद्यावत्त्वव्यापकं वा । यथा क्रोशं गम्यत इत्यादौ क्रोशादेरभिव्याप्तिर्वितीयार्थः । अत्र क्रोशाभिव्याप्तगतेः कर्मत्वम् इति
बोधः ( श० प्र० ११७)।। अभिहितान्वयवादः-शाब्दबोधाविषयस्य शक्तिज्ञानाविषयत्वनियम इति वादः । यथा तात्पर्यार्थोपि केषुचित् ( काव्यप्र० उ० २ ) इत्यादौ । अत्र अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्गमर्यादया वाक्यार्थबोधे विषयो भवतीति वादः कथनम् इति व्युत्पत्तिः । भट्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org