________________
- १०३८
न्यायकोशः। स्थानम्-१ ज्ञापकम् (गौ० वृ० १।२।१९ )। यथा निग्रहस्थानम् इत्यादी
वेदाः स्थानानि विद्यानाम् ( याज्ञ० १।३ ) इत्यादौ च स्थानशब्दस्यार्थः । २ स्थितिः। सा च क्वचित् स्वाभिप्रायबोधानुकूला स्थितिः । यथा गोपी कृष्णाय तिष्ठते इत्यादौ तिष्ठतेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूला स्थितिः इति शाब्दिकमते बोधः ( ल० म० का० ४ पृ० १०३)। ३ प्रसङ्गः । यथा स्थानेन्तरतमः ( पाणि० १११।५०) इत्यादी आदिश्यमानस्य यणादेः कारणीभूतेगादेः प्रसङ्गः स्थानम् इति शाब्दिका वदन्ति। ४ आश्रयः इति काव्यज्ञाः संगिरन्ते। ५ मीमांसकास्तु देशसामान्यम् । लक्षणं च संनिधिविशेषत्वम् ( लौ० भा० टी० पृ० २६ ) । स्थानं क्रमश्चेत्यनर्थान्तरम् । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या ( पार्थसारथिः ) इति । यथा ऐन्द्राममेकादशकपालं निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत् इत्येवंक्रमविहितेष्टिषु इन्द्रामी रोचनादिवः वैश्वानरोजीजनत् इत्यादीनां याज्यानुवाक्यामत्राणां यथासंख्यं प्रथमस्य प्रथमम् द्वितीयस्य द्वितीयम् इत्येवंरूपो विनियोगः यथासंख्यपाठात् इत्याहुः। तच्च स्थानं द्विविधम् पाठसमानदेशत्वम् अनुष्ठानसमानदेशत्वं च । तत्राद्यमपि द्विविधम् यथासंख्यपाठः यथासंनिधिपाठश्चेति। तत्र यथासंख्यपाठत्वेन समानदेशत्वं एन्द्रामम् इत्यादिषदाहरणेषु बोध्यम् ( लौ० भा० पृ० २६ )। ६ सादृश्यम् । ७ अवकाशः । ८ संनिवेशः । ९ वसतिः। सा च लोकविशेषः इति पौराणिका आहुः । लोकश्च सम्यग्वर्तिनां स्वस्वधर्मानुष्ठायिनां जनानामुपभोगस्थानम् । अत्रोक्तमग्निपुराणे प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । क्षत्रियाणां तथा चैन्द्र संग्रामेष्वनिवर्तिनाम् ॥ गान्धर्व शूद्रजातीनां परिचर्यानुकारिणाम् इत्यादि । १० नीतिवेदिनस्तु उपचयापचयहीनं
साम्यावस्थानम् इत्याहुः । स्थाने—(अव्ययम् ) १ योग्यम् । यथा स्थाने तच्चलमर्त्यगण्डनृपतेः
( प्रतापरु० ) स्थाने भवानेकनराधिपः सन ( रघु० ५।१६ ) स्थाने वृता भूपतिभिः परोक्षैः ( रघु० ७।१३ ) इत्यादी स्थाने इत्यस्यार्थः । २ सत्यम् । ३ सादृश्यम् । ४ करणार्थः ( शब्दर०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org