________________
न्यायकोशः ।
१०३७
1
1
1
(मनु० अ० ९ श्लो० २, ३, ११) इति । अन्यत्राप्युक्तम् । (अ० ५ श्लो० १४७ - १६६ ) । अधिवेत्तारं प्रत्याह आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ( याज्ञ० अ० १ श्लो० ७६ ) इति । व्यभिचारे स्त्रिया मौण्ड्यमधः शयनमेव च । कदन्नं च कुवासश्च कर्म चावस्करोज्झनम् || ( याज्ञ० अ० १ श्लो०७० मिताक्षरायां नारदः ) । अविभाज्यं स्त्रीधनं च अध्ययध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ( मनु० अ० ९ श्लो० १९४ ) । पितृमातृपतिभ्रातृदत्तमध्यम्युपागतम् । आधिवेदनिकाद्यं च स्त्रीधनं तत्प्रकीर्तितम् || (याज्ञ० अ० १ श्लो० १४८ ) । स्त्रीपुरुषभेदस्तु रतिमञ्जर्याम् पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो मृगो वृषोश्वश्व स्त्रीपुंसोजतिलक्षणम् ॥ इति । ३ लिङ्गरूपसंज्ञाविशेषः । यथा अटवी इत्यादिशब्देषु । अत्रेदं विज्ञेयम् । खटावीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्व - रूपस्त्रीत्वस्यायोग्यतयानन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परंपरासंबन्धेनार्थगततया भासते इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात् ( ग० व्यु० स्त्री० पृ० ११९ ) इति । स्त्रीलिङ्गम् -- ( नाम ) [क] स्त्रीलिङ्गत्वेन परिभाषितं पदम् । यथा तटी इत्यादिपदम् । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । स च तटी इत्यादौ स्त्रीत्वेन ङीबादिप्रत्ययः । [ख] क्वचित् योन्यादिमत्त्वलक्षणस्त्रीत्ववाचकं पदम् । यथा न विप्रा वेदमुच्चरेत् इत्यादौ विप्रापदम् । अत्र टाबादिना प्रत्ययेनैव ( न तु प्रकृत्या ) स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वं प्रकृत्यर्थेनुभूयत इति ज्ञेयम् (श० प्र० लो० ५४ टी० पृ० ६९ ) । स्थलम् — १ [क] तत्तत्पक्षसाध्यादिवाचकप्रयोग: । यथा पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले इत्यादौ ग्रन्थे स्थलशब्दस्यार्थः । [ ख ] तत्तद्व्यवहारजन्यशाब्दबोधविषयः । यथा पर्वते वह्निसाध्यकस्थलं हि पर्वतो वह्निमान् इति शाब्दबोधविषयो वह्निमत्पर्वतादि । २ उदाहरणवाक्यम् इति केचिद्वदन्ति । ३ जलशून्यो कृत्रिमो भूभागः । यथा ऊपरं स्थलम् इति काव्यज्ञा आहुः ( अमर : २|१ | ५ ) । ४ गजपृष्ठगतं काष्ठासनम् |
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org