________________
न्यायकोशः।
१०३५ प्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते । तेन तादृशि स्वरूपाख्याने नातिव्याप्तिः। भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः (मू० म० मङ्ग. १ पृ० १०३-१०४)। [ख] सर्वोत्कृष्टगुणवत्ताप्रतिपादकशब्दः (म० वा० पृ० १०)। [ग] आरोप्यमाणगुणकथनम् इति प्रामाणिका आहुः । [घ ] ज्ञानविशेषोपधायकः शब्दः इति नव्या आहुः ( मू० म० मङ्ग० १।१०४ )। २ [क] विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः । संप्रत्ययार्थ स्तूयमानं श्रद्दधीत इति । प्रवर्तिका च। फलश्रवणात्प्रवर्तते ( वात्स्या० २।१।६४ )। [ख] साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम् । यथा सर्वजिता वै देवाः सर्वमजयन् इति विधेः सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति इत्येवमादि वाक्यं स्तुतिः (गौ० वृ० २।१।६४)। यथा वा अहरहः संध्यामुपासीत इति विधेः संध्यामुपासते ये तु सततं संशितव्रताः। विधुतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । [ग] विधेयस्तावकं वाक्यम् । यथा वायव्य श्वेतमालभेत भूतिकामः इति विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तैत्तिरीयसंहिता २।१।१ ) ( म० प्र० ४ पृ० ६४) इति । इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः प्रशस्तः इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युद्देशेनैकवाक्यत्वादर्थवादः प्रमाणम् ( शाब० भा० १।२७)। [घ ] गुणकथनपरमेकं वाक्यम् (जै० न्या० अ० ९ पा० २ अधि० ३)। ३ स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनम् । यथा यो देवदत्तश्चतुर्वेदाभिज्ञः इत्युक्ते सर्वे जनाः स्तुतिमपंगच्छन्ति । गुणिनमुपसर्जनीकृत्य तन्निष्ठानां गुणानां प्राधान्येन कथनम् इत्यर्थः ( ऋग्वेदभाष्ये सायणः )। स्तोत्रं चतुर्विधम् द्रव्यस्तोत्रं कर्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवाभिजनस्तोत्रं स्तोत्रमेत
चतुर्विधम् ॥ ( मत्स्यपु० अ० १२३ ) इति । स्तोत्रम्-[क] स्तुतिः । [ख ] प्रगीतमत्रसाध्या स्तुतिः ( जै० न्या०
अ० २ पा० १ अधि.० ५)। अत्रेदमवधेयम् । प्रगीतमयसाध्यं स्तोत्रम् । अप्रगीतमयसाध्यं शस्त्रम् इति स्तोत्रशस्त्रयोर्भेदः इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org