________________
न्यायकोशः। सिद्धिः-१ निश्चयः । स च साध्यवत्तानिश्चयः ( दीधि० २) (ग०
सत्प्र०)। पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहिनिश्चयः इत्यर्थः ( नील० २)। यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् इति निश्चयः। इयं सिद्धिर्द्विविधा पक्षतावच्छेदकसामानाधिकरण्यमात्रावगाहिनी पक्षतावच्छेदकव्यापकत्वावगाहिनी चेति। इयं सिद्धिरसत्यामनुमित्सायां कामिनीजिज्ञासा कार्यमात्रस्येव अनुमितेः पृथक् प्रतिबन्धिका भवति । अनुमित्सा तु तत्रोत्तेजिका भवति इति ज्ञेयम् (ग० पक्ष० ) । अनुमित्सा सिषाधयिषा । अत्रानुभवमनुरुध्य प्रतिबध्यप्रतिबन्धकभावः कल्प्यते। पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षतावच्छेदकावच्छेदेनैव सिद्धिविरोधिनी न तु पक्षतावच्छेदकसामानाधिकरण्येनापि सिद्धिर्विरोधिनी । पक्षतावच्छेदकसामानाधिकरण्यमात्रेणानुमितिं प्रति तूभयविधापि सिद्धिर्विरोधिनी ( मु० २ पक्ष० ) ( दीधि० २) इति । २ व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिरुच्यते । यथा असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः (ता० र० श्लो०८४ )। ३ सांख्यास्तु आध्यात्मिकादिदुःखत्रयविघातात्रयो मुख्यसिद्धय इत्याहुः। अत्र सूत्रम् उहादिभिः सिद्धिः ( सांख्य० सू० अ० ३ सू० ४४ )। इति । तदर्थश्च ऊहादिभेदैः सिद्धिरष्टधा भवति इति । इदं सूत्रं कारिकयापि व्याख्यातम् । यथा ऊहः शब्दोध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोष्टौ सिद्धेः पूर्वोङ्कशविविधः ॥ ( सांख्य० भा० ३।४४ ) इति । ४ योगशास्त्रज्ञास्तु ऐश्वर्यम् । अत्र सूत्राणि ते समाधावुपसर्गा व्युत्थाने सिद्धयः ( पात० पा० ३ सू० ३७ ) जन्मौषधिमत्रतपःसमाधिजाः सिद्धयः ( पात० पा० ४ सू० १) इत्यादीनि । तदर्थश्च ते प्रतिभादयः सिद्धयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः विघ्नाः। तत्त्वदर्शनप्रत्यनीकत्वान् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः प्रियाः (भाष्य० ) इति । तत्र जन्मना सिद्धिर्यथा यक्षगन्धर्वादीनामाकाशगमनादिसिद्धिः । देवहूतीपुत्रकपिलादीनां तु स्वाभाविकी सिद्धिः। ओषधिभिः असुरभवने माण्डव्यादिमुनीनां रसायनेन इत्येवमादिः । मत्रैरणिमादिलाभः केषांचित् । तपसा विश्वामित्रा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org