________________
न्यायकोशः।
दीनां सिद्धिः । संकल्पसिद्धिः कामरूपी यत्र तत्र कामगः इत्येवमादिः। समाधिजाः सिद्धयस्तु परमाण्वादिमूलप्रकृत्यन्तवस्तूनां साक्षात्कारः ऋतंभराख्याध्यात्मप्रसादश्च इत्यादयः ( पात० १४७-४८ )। अष्टौ सिद्धयस्तु अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम् । वशित्वम् ईशित्वं चेति । तत्र भूतजयेनाणिमाद्यष्टसिद्धयः प्राप्नुवन्ति । तत्र अणिमा परमाणुवत्सूक्ष्मस्वरूपेणावस्थानम् । महिमा विभुत्वप्राप्तिः । लघिमा कार्पासवल्लघुत्वभवनम् । गरिमा मेरुपर्वतवद्गुरुत्वभवनम् । प्राप्तिः अगुल्या चन्द्रमण्डलस्पर्शनम् । प्राकाम्यं सत्यसंकल्पत्वम् । वशित्वं सर्वप्राणिनियन्तृत्वम् । ईशित्वं च सर्वभूतोत्पादनशक्तिमत्त्वम् ( पात० ३।४५ ) इति । ५ तात्रिकास्तु मन्त्रसिद्धिरित्याहुः । इयं सिद्धिरुत्तममध्यमाधमभेदेन त्रिविधा । तत्रोत्तमा मनोरथानामक्लेशपरकायप्रवेशादिः । मध्यमा ख्यातिवाहनभूषादिलाभः । अधमा तु धनित्व
पुत्रदारादिलाभः ( तन्त्रसा० ) इति । सिनीवाली-दृष्टचन्द्राममावास्यां सिनीवाली प्रचक्षते ( पु० चि०
पृ० ३१८ )। सिपाधयिषा-[क] तत्साध्यविशिष्टतत्पक्षविषयकत्वाकारिकानुमितिविषयिणीच्छा ( दीधि० २ पक्ष० पृ० १२४)। [ख] अनुमितित्वप्रकारकेच्छा ( ग० सार्व० पक्ष० )। यथा पर्वते वह्नयनुमितिर्मे जायताम् इत्याकारिकेच्छा । अत्रेदं चिन्त्यम् । सिद्धौ सत्यामपि सिषाधयिषासत्त्वेनुमितिदर्शनात्सिषाधयिषाया अनुमितावुत्तेजकत्वमुक्तम् । तच्चोत्तेजकत्वम् तत्साध्य विशिष्टतत्पक्षविषयकत्वानुमितित्वप्रत्यक्षातिरिक्तत्वैतरक्षणानन्तरक्षणानुमितित्वैतन्निष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकविषयिताकत्वरूपेणानुगतेन वाच्यम् (ग० पक्ष० ) इति । परे तु पर्वते वह्निमनुमिनुयाम् इत्याद्यनुगतेच्छानामनुगतरूपेणैवोत्तेजकत्वम् । प्रत्यक्षातिरिक्तं ज्ञानं जायताम् इत्याद्यननुगतेच्छानां तु तत्तद्व्यक्तित्वेनैवोत्तेजकत्वं
वाच्यम् इत्याहुः ( दि० २ पक्षता० पृ० १४९ )। सीमा-१ मर्यादा (ग० व्यु० कार० २ ख० २ पृ० ७५ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org