________________
न्यायकोशः ।
१०१९
सिद्धसाधनम् - ( दोष: ) १ प्रमाणान्तरेणावगतार्थसाधनम् अनुमानम् । यथा पर्वते वह्निनिश्चयानन्तरमपि पुनस्तत्साधनाय विहितं पर्वतो वह्निमान् धूमात् इत्यनुमानम् । अत्र न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेनुमातारः इत्यनुभवो द्रष्टव्यः ( तत्त्वचिन्तामणौ वाचस्पतिमिश्रः ) । अत्र सिषाधयिषाया असत्त्वे इति ग्रन्थ आदौ पूरणीयः । सिषाधयिषायाः सत्त्वे तु अनुमितेरुदयेन तदा सिद्धसाधनस्य न दोषत्वम् ( पक्षताविघटकत्वम् ) इत्यवधेयम् । अत्र प्रत्यक्षकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः इत्यनुभवो द्रष्टव्यः ( चिन्तामणौ वाचस्पतिमिश्रः ) । २ साध्यपक्षतावच्छेदकयोरैक्ये सिद्धसाधनम् । यथा पर्वतः पर्वतत्ववान् धूमात् इत्यादौ सिद्धसाधनम् । अत्र पूर्वं पक्षतावच्छेदकपर्वतत्वविशिष्टपक्षज्ञानेनैव साध्यसिद्धयुपपत्तौ पुनस्तत्साधनं सिद्धसाधनम् इति भावः । केचित्तु पक्षतावच्छेदकभेदे न सिद्धसाधनं दोषः । यथा नित्ये वाङ्मनसे इत्यत्र । यथा वा घटत्वावच्छेदेनेतरभेदस्य सिद्धत्वेपि द्रव्यत्वावच्छेदेनेतरभेदसाधने न सिद्धसाधनम् इत्याहुः । सिद्धसाधनं च हेत्वाभासो निग्रहस्थानं वेति मतभेद: । तत्र सिद्धसाधनं पक्षताविघटकत्वेनाश्रयासिद्धेन्तर्भवति इति प्राचः जरन्नैयायिकाः आहुः । तन्मते पक्षतायाः साध्यसंशयरूपतया तद्विघटकत्वं साध्यनिश्चयस्याक्षतम् । तथा च संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धिः इति भाव: ( नील० २ ) ( प्र० च० पृ० ३१ ) | नव्यास्तु सिषाधयिषितपक्षविघटनद्वारा सिद्धसाधनं दूषणम् न स्वतः । सत्यपि सिद्धसाधने ( साध्यनिश्चये ) सिषाधविषयानुमित्युदयान्न सिद्धसाधनं हेत्वाभासान्तरम् । किंतु निग्रहस्थानान्तरम् इत्याहु: ( चि.० २ ) ( न्या० म० २ पृ० २१ ) ( म०प्र० २ पृ० २८ ) ( त० दी० २ पृ० २७ ) ( सि० च० ) | नव्यानामयमाशयः । सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्यैव सिद्धान्त सिद्धपक्षतात्वस्वीकारात् सत्यामपि सिद्धौ ( साध्य निश्चये ) सिषाधयिषादशायां चानुमित्युदयेन सिद्धेरनुमिति प्रतिबन्धकत्वाभावान्न व्यापकत्व घटित हेत्वाभासलक्षणाक्रान्तत्वं सिद्धिविषयस्य साध्यवत्पक्षस्य इति न सिद्धसाधनस्य हेत्वाभासत्वं (दुष्टहेतुत्वम् ) संभवति ( नील० २ ० २७ ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org