________________
२०१८
साहाय्यम् —– सहायता ।
साहित्यम् - १ तत्तत्क्रिया कालवृत्तित्वम् सहवर्तमानत्वं वा । यथा एकेनापि : सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ।।
न्यायकोशः ।
इत्यादौ सहशब्दस्यार्थः । अत्र वर्तमान इत्यध्याहारात् वर्तमानत्वक्रियामायैव साहित्यबोधः इति वदन्ति ( ग० व्यु० का० ३ पृ० ९१ ) । अथ वा विद्यमान इत्यध्याहारात् विद्यमानत्वमपि सहशब्दार्थः । अत एव विद्यमानसहार्थे तृतीयेयम् इति शाब्दिकमतमपि वरीवर्ति । अत्र पुत्रेषु भारवहनकर्तृत्वाभावेपि सहशब्दप्रयोगादध्याहार आवश्यकः इति ज्ञेयम् (का० व्या० पृ० ८ ) । २ [क] तुल्यवदेकक्रियान्वयित्वम् (न्या० म० ४ ) ( दि० ४ ) । तदर्थच एककारकान्वयित्वेन तुल्ययोरेकजातीयक्रिययोरन्वयित्वम् ( समानकालीनत्वम् ) ( श० प्र० लो० ९४ टी० पृ० ११९ ) इति । [ ख ] अन्ये तु परस्परसापेक्षाणां तुल्यरूपाणामेकक्रियान्वयित्वम् इत्याहु: ( श्राद्ध० ) ( वाच० ) । शाब्दिकास्तु समभिव्याहृतत्वं सहितत्वम् इत्याहुः ( सि० कौ० ) । ३ बुद्धिविशेषविषयत्वम् । ५ काव्यज्ञास्तु पद्यात्मकं काव्यं साहित्यम् इत्याहुः । शिष्टं तु सहशब्द व्याख्याने दृश्यम् ।
सिंहासनम् — विजयो जयदो नाम रिपुघ्नोतिप्रियंकरः । दुःसहो धर्मदः शान्तः सर्वारिष्टविनाशनः । एतेष्टौ संनिधौ प्रोक्तास्तव सिंहा महाबलाः । तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे || ( पु० चि० पृ०७२ ) । सिद्धम् — १ इदमित्थंभूतं च इत्यभ्यनुज्ञायमानमर्थजातम् । यथा सिद्धान्त इत्यादौ सिद्धशब्दस्यार्थः ( वात्स्या० १|१|२६ ) । २ सिद्धिविषयः । ३ निश्चितम् । ४ परिनिष्ठितम् । यथा परब्रह्म सिद्धम् इत्यादौ सिद्धशब्दार्थ इति मायावादिवेदान्तिनो वदन्ति । ५ देवयोनिविशेषः इति पौराणिक आहुः | ६ मौहूर्तिकास्तु विष्कम्भादिषु मध्ये ( २१ ) एकविंशो योग: इत्याहुः । ७ कृष्णधत्तूरम् इति भिषज आहुः । ८ मन्त्रविशेषः सिद्धियुक्तमश्च इति मात्रिका आहुः । ९ शाब्दिकास्तु क्रियाविशेषः इत्याहुः | १० निष्पन्नम् इति काव्यज्ञा आहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org