________________
न्यायकोशः। णोक्तस्यातिसामान्ययोगादसंभवदर्थकत्वकल्पनया दूषणाभिधानम् । यथा ब्राह्मणोयं विद्याचरणसंपन्नः इत्युक्ते ब्राह्मणत्वेन विद्याचरणसंपदं साधयति इति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसंपत् बाल्ये व्यभिचारात् (गौ० वृ० १।२।१३ ) इति । तदुक्तम् सामान्यच्छलमेतत्स्यादतिसामान्ययोगतः । तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ॥ ( ता० र० १ श्लो० ९६) इति । अत्र सामान्यविशिष्टः संभवदर्थश्च एतद्ब्राह्मणः । अतिसामान्यं तु ब्राह्मणत्वसामान्यम्
इति ज्ञेयम् । सामान्यतो दृष्टम् (अनुमानम् ) [क] व्रज्यापूर्वकम् अन्यत्र दृष्टस्य
अन्यत्र दर्शनम् इति । यथा चादित्यस्य । तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति । यत्राप्रत्यक्ष लिङ्गलिङ्गिनोः संबन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथा इच्छादिभिरात्मा। इच्छादयो गुणाः । गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या० १।१।५)। [ख] कार्यकारणभिन्नलिङ्गकमनुमानम् । यथा पृथिवीत्वेन द्रव्यत्वानुमानम् । [ग] अन्वयव्यतिरेक्यनुमानम् । यथा वह्निमान्
धूमात् इत्यादि (गौ० वृ० १११।५ )। सामान्यप्रत्यासत्तिः-सामान्यलक्षणशब्दवदस्यार्थीनुसंधेयः । सामान्यलक्षणः-( अलौकिकः संनिकर्षः ) अलौकिकप्रत्यक्षविशेषे कारणं
संनिकर्षविशेषः । स च १ [क] इन्द्रियसंबद्धविशेष्यकज्ञानप्रकारीभूतं सामान्यम् । यथा घटत्वधूमत्वादि । अत्रार्थे सामान्य लक्षणं स्वरूपं यस्य इति व्युत्पत्त्या सामान्यमेव प्रत्यासत्तिः ( दीधि० २ पृ० ८०) (मु० १ पृ० १२७ )। अत्रेदं विज्ञेयम् । सामान्य ज्ञायमानमेव स्वाश्रयाणां संनिकर्षः । ज्ञायमानघटत्वसंनिकर्षण घटाः इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते (त० कौ० ) इति । तथा यत्रेन्द्रियसंयुक्तो धूमादिः तद्विशेष्यकं धूमः इति ज्ञानं जातम् । तत्र ज्ञाने धूमत्वं प्रकारः । तत्र धूमत्वेन संनिकर्षेण धूमाः इत्येवंरूपं सकलधूमविषयकं ज्ञानं जायते (मु० १ पृ० १२७ ) ( दीधि० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org