________________
न्यायकोशः।
१०१३ विशेषजनकतावच्छेदकजात्यवच्छिन्नकठिनावयवद्वयविभागे तेजोवेगातिशयेत्यन्ताग्निसंयोगनाश्यतावच्छेदकवैजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे चाव्याप्तिवारणाय अवृत्ति इत्यन्तं जातिविशेषणम् । कर्मादावतिव्याप्तिवारणाय विशेष्यदलं दत्तम् । पृथिवीत्वादिव्याप्यतावच्छेदकतत्तत्संख्यात्वादिशून्यत्वस्य तत्तत्संख्यायामभावादव्याप्तिः । तद्वारणाय जातिपदं दत्तम् ( दि० गु० पृ० १९३ ) इति। [ख] यद्रूपावच्छिन्नसमानाधिकरणं यत्किचिद्रव्यविभाजकोपाधिद्वयं भवति तद्भिन्ना स्थितिस्थापकवृत्तिभिन्ना च या जातिस्तादृशजातिमद्भिन्नगुणत्वम् (नील० गु० पृ० ३९)। तथा हि । यद्रूपम् संख्यात्वसंयोगत्वविभागत्वादि । तदवच्छिन्नः संख्यासंयोगविभागादिः । तत्समानाधिकरणं यत्किंचिद् द्रव्यविभाजकोपाधिद्वयम् पृथिवीत्वजलत्वादि भवति तद्भिन्ना ( संख्यात्वसंयोगत्वादिभिन्ना ) या जातिः रूपत्वादिः ज्ञानत्वादिश्च तद्वद्भिन्नगुणत्वं संख्यादौ वर्तते इति लक्षणसमन्वयो बोध्यः। सामान्यगुणाश्चैकादश संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम् नैमित्तिकद्रवत्वम् वेगः स्थितिस्थापकश्चेति (मु० गु० पृ० १९२-१९३ )। अत्र केषांचिन्मते स्थितिस्थापकस्य पृथिव्यादिद्रव्यचतुष्टयवृत्तित्वाङ्गीकारात् . तन्मताभिप्रायेण स्थितिस्थापकस्य सामान्यगुणेष्वन्तर्भावः कृतः । तस्य
पृथिवीमात्रवृत्तित्वाङ्गीकारे विशेषगुणत्वमेव इति विज्ञेयम् । . सामान्यच्छलम्-(छलम्) [क] संभवतोर्थस्यातिसामान्ययोगादसंभूतार्थ
कल्पना सामान्यच्छलम् ( गौ० सू० १।२।१३ ) । अत्र व्युत्पत्तिः सामान्यनिमित्तं छलं सामान्यच्छलम् इति। यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसंपदं क्वचिदाप्नोति कचिदत्येति। अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्नः इत्युक्त कश्चिदाह । संभवति हि ब्राह्मणे विद्याचरणसंपत् इति । अस्य वचनस्य विघातोर्थविकल्पोपपत्त्या असंभूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसंपत्संभवति व्रात्येपि संभवेत् व्रात्योपि ब्राह्मणः सोप्यस्तु विद्याचरणसंपन्नः (वात्स्या० १।२।१३) इति । [ख] सामान्यविशिष्टसंभवदर्थाभिप्राये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org