________________
१०१२
न्यायकोशः। पुरुषादिनिष्ठं दण्डित्वरूपम् इति दण्डित्वादि दण्डत्वान्नातिरिक्तम् ( त० कौ० पृ० २० ) इति । इदं सामान्यं कचिन्नित्यं धूमत्वादि कचिच्चानित्यं घटादि (मु० १ पृ० १२९ ) इति । ३ साधारणो व्यापको वा धर्मः। यथा द्रव्यसामान्यलक्षणम् हेत्वाभाससामान्यनिरुक्तिः इत्यादौ सामान्यशब्दार्थः। ४ सर्वशब्दवदस्यार्थीनुसंधेयः । यथा प्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुभयाभावः (दीधि०) (मु० २ व्याप्तिनि० ) इत्यादौ सामान्यशब्दस्यार्थः । तथा च प्रतियोगितासामान्ये इत्यस्य सर्वासु प्रतियोगितासु इत्यर्थः । ५ साहित्यशास्त्रज्ञास्तु सादृश्यप्रयोजको धर्मः। यथा मुखं पद्ममिव सुन्दरम् इत्यादौ सौन्दर्यादिः साधारणधर्मः सामान्यम् इत्याहुः। ६ मीमांसकाश्च अधिकविषयकम् । यथा ब्राह्मणाय दधि दीयताम् कौण्डिन्याय तक्रम् इत्यादौ दधिदानमधिकब्राह्मणविषयकत्वेन सामान्यम् इत्याहुः । अत्रेदमधिकं विज्ञेयम् । सामान्यशास्त्रं च विशेषशास्त्रेण बाध्यते। यथा मा हिंस्यात्सर्वा भूतानि इति हिंसानिषेधः सर्वविषयः । वायव्य श्वतमालभेत् इत्यादि हिंसाशास्त्र विशेषः। तेन सामान्यशास्त्रं वैधेतरविषय एव प्रसरति इति । अत्र बाध्यबाधकभावस्तु समान एव विषये न तु भिन्ने विषये प्रवर्तते इति नियमो द्रष्टव्यः। ७ आलंकारिकास्तु अलंकारविशेष इत्याहुः । तदुक्तम् सामान्यं प्रकृतस्यान्यतादाम्यं सदृशैर्गुणैः ( सा० द० परि० १०
श्लो० ९० ) इति । सामान्यगुणत्वम्-[क] रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकसंयोगविभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् (दि० गु० पृ० १९३ ) ( ल० व०) । यथा संख्यादीनां गुणानां सामान्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकं पृथिवीत्वादि । तद्व्याप्यतावच्छेदकं च गन्धत्वादि । तच्छ्न्यत्वस्य संख्यादौ सत्त्वाल्लक्षणसमन्वयः । अत्रत्यपदप्रयोजनं कथ्यते । जलीयशुक्लरूपे वायोरनुष्णाशीतस्पर्शे च पृथिव्यादिशुक्लरूपस्पर्शव्यावृत्तजातिविशेष मानाभावात् शुक्लरूपानुष्णाशीतस्पर्शयोरतिव्याप्तिवारणाय सत्यन्तं दलं दत्तम् । शब्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org