________________
न्यायकोशः।
१०११ सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानि इति लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं च सिद्धम् (प्रशस्त० सामान्यनि० पृ० ६३-६४ )। तत्र परं सत्ता । महाविषयत्वात् । अपरं द्रव्यत्वगुणत्वकर्मत्वादि । अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्य सत् विशेषाख्यामपि लभते (मु० १) (त० सं० ) इति बोध्यम् । परत्वं चात्र व्यापकत्वम् । तच्च अधिकदेशवृत्तित्वम् । तच्च स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् (ल० व० पृ० ३८ )। अथ वा स्वरूपतः सर्वदेशसंबद्धत्वम् (वै० उ० १।२।३ )। अत्रेदं बोध्यम् । सत्ताया द्रव्यादित्रितयवृत्तित्वेनेतरसामान्यापेक्षयाधिकदेशवृत्तित्वात् परत्वं ज्ञेयम् (त० को०)। सा चानुवृत्तरेव हेतुत्वात्सामान्यमेव (प्रशस्त० पृ० २ ) । अत्रेदमधिकं विज्ञेयम् सत्तागुणत्वे च सर्वेन्द्रियग्राह्ये समवायोभावश्च ( न्या० वा० १।१।१३ पृ० ७६ ) इति । नव्याः पुनरिमां सत्तां नाङ्गीकुर्वन्ति । अपरत्वं चात्र न्यूनदेशवृत्तित्वम् । तच्च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् (ल० व०)। द्रव्यत्वादीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वं बोध्यम् । अत्र सूत्रम् द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ( वै० १।२।५ ) इति । तथा च द्रव्यत्वादीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वम् पृथिवीत्वाद्यपेक्षयाधिकदेशवृत्तित्वात्परत्वम् । एवं च परत्वमपरत्वं च तेषां विज्ञेयम् (मु० १११)। २ यत्किचिंदधिकरणवृत्तिपदार्थमात्रम् । यथा सामान्यलक्षणः संनिकर्षः इत्यादौ सामान्यशब्दार्थः । अत्रार्थे व्युत्पत्तिः समानानां भावः सामान्यम् (मु० १ पृ० १२९ ) इति । इदं सामान्यं द्विविधम् अखण्डम् सखण्डं चेति । तत्र अखण्डम् साक्षात्संबद्धं सामान्यम् जातिः इत्युच्यते । यथा सत्ताद्रव्यत्वकर्मत्वादि । सखण्डं तु परंपरया संबद्धं सामान्यम् उपाधिः इत्युच्यते । यथा प्रमेयत्वज्ञेयत्वादि दण्डित्वकुण्डलित्वादि च । अयं च उपाधिः पदार्थमात्रवृत्तिः (प्र० प्र० ) (दीधि० २ पृ० ८१) । इदमत्राकूतम् । प्रमात्वमेव हि परंपरासंबन्धेन ( स्वाश्रयविषयत्वसंबन्धेन) घटादिनिष्ठं प्रमेयत्वरूपम् इति प्रमात्वान्नातिरिक्तं प्रमेयत्वम् । एवम् दण्डत्वमेव परंपरासंबन्धेन (स्वाश्रयदण्डसंयोगसंबन्धेन)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org