________________
१०१०
न्यायकोशः। [च] सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम् ( सर्व० सं० पृ० २१६ औ० )। सामान्यं द्विविधम् परम् अपरं चेति । अत्र सूत्रम् सामान्यं विशेष इति बुद्ध्यपेक्षम् (वै० १।२।३) इति । तदर्थश्च सामान्यं परसामान्यम् विशेषोपरसामान्यम् इति द्वयं बुद्ध्यपेक्षम् । बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधम् परम् अपरं च । तत्र परसामान्यं सत्ता। द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्यविशेषयोः परापरयोर्लक्षणं बुद्धिरेव । अनुवृत्तत्वबुद्धिः सामान्यस्य व्यावृत्तत्वबुद्धिर्विशेषस्य लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् । व्यावृत्तत्वमल्पदेशवृत्तित्वम् (वै० वि० १।२।३ पृ० ५१-५२ )। तथा च भाष्यम् द्विविधं सामान्यं परम् अपरं च। स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणम् । स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानम् अनुवृत्तिबुद्धिकारणमित्यर्थः । कथम् । प्रतिपिण्डं सामान्यापेक्षप्रबन्धज्ञानोत्पत्तावभ्यासप्रत्ययजनितात्संस्कारादतीतज्ञानप्रबन्धप्रत्ययावेक्षणाद्यत्समनुगतमस्ति तत्सामान्यम इति। तत्र सत्ता परं सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मानीलीद्रव्याभिसंबन्धात् नीलम् नीलम् इति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत् सत् इति प्रत्ययानुवृत्तिः । सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्ता इति सिद्धा सत्ता। सत्तासंबन्धात् सत् इति प्रत्ययानुवृत्तिः । तस्मात्सत्ता सामान्यमेव । अपरं द्रव्यत्वगुणत्वकर्मत्वादि । तच्चानुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् गुणकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः । तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् द्रव्यकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः । तथा कर्मवं परस्परविशिष्टेषूत्क्षेपणादिष्वनुवृत्तिययहेतुत्वात् सामान्यम् द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः । एवम् पृथिवीत्वरूपत्वोत्क्षेपणत्व
गोत्वपटत्वादीनां प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामा, न्यविशेषभावः सिद्धः । तानि द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org