________________
न्यायकोशः।
१००९ तावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नविधेयताकत्वम् ।यथा पर्वतो वह्निमान इत्याकारकानुमितेः वह्निपर्वतत्वयोः सामानाधिकरण्यमात्रविवक्षायाम् तयोरवच्छेद्यावच्छेदकभावाविवक्षायाम् सामानाधिकरण्यमात्रावगाहित्वम्। प्राञ्चस्तु पक्षतावच्छेदकाक्रान्तयत्किचिव्यक्तिविषयकत्वं सामानाधिकरण्यमात्रावगाहित्वम् इत्याहुः (ग० २ पक्ष० पृ० २० )। [ख] तद्वदनुयोगिकप्रतियोगित्वम् । प्रतियोगितासंबन्धेन तद्वदनुयोगिकवत्त्वम् इत्यर्थः ( ग० २ व्याप्ति० सिद्धा० )। यथा द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यम् । तथा हि द्रव्यत्ववान् घटः। तदनुयोगिकः घटे पृथिवीत्वस्य समवायाख्यः संबन्धः । तत्प्रतियोगित्वं पृथिवीत्वेस्ति इति । [ग] स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना या स्वविशिष्टनिरूपिता यत्किचिव्यक्तिनिष्ठाधेयता सा। यथा यदा सिषाधयिषा नासीत् सिद्धिश्चासीत्तदा सिद्धिसिषाधयिषाविरहयोः सामानाधिकरण्यम् । इदं च एकक्षणावच्छिन्नसामानाधिकरण्यम् इत्युच्यते। २ [क] अभेदान्वयबोधकत्वम् । यथा नीलो घटः इत्यादौ नीलपदघटपदयोः सामानाधिकरण्यम् । [ख] शाब्दिकास्तु पदयोरेकार्थाभिधायित्वम् [ग] समानविभक्तिकत्वं वा । यथा नीलो घटः इत्यादौ नीलफ्घटपदयोः सामानाधिकरण्यम् इत्याहुः ( वै० सा० द०)। [घ] प्रकारद्वयविशिष्टैकवस्तुबोधकत्वम् । प्रकारद्वयविशिष्टैकवस्तु
परत्वात्सामानाधिकरण्यस्य (सर्व० सं० पृ० १०१ रामानु० )। सामान्यम्-१ ( पदार्थः.) [क] या समानां बुद्धिं प्रसूते भिन्नेष्वधि
करणेषु यया बहूनीतरेतरतो न व्यावर्तन्ते योर्थोनेकत्र प्रत्ययानुवृत्तिनिमित्तम् तत्सामान्यम् ( वात्स्या० २।२।६८ ) (प्रशस्त० १ पृ० २) (त० भा०)। अत्र व्युत्पत्तिः समानानां भावोनागन्तुको नित्यो धर्मः सामान्यम् (प० मा० ) इति । तच्च द्रव्यगुणकर्मवृत्ति नित्यं चेति बोध्यम् । [ख] नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् । [ग] नित्यत्वे सत्यनेकसमवेतम् । [ घ] सामान्यं नित्यमेकं स्यादनेकसमवायि च (ता० र० श्लो० ५३ ) इति । [] अनुगतो धर्मः। १२७ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org