________________
न्यायकोशः।
भूतलादेरेव घटाभावादेः संसर्गतया घटकाले च तच्छून्यकालविशिष्टभूतलादिरूपसंसर्गस्याभावेन तदा न तदत्यन्ताभावबुद्धिः ( नील० ) इति । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावेप्यप्रतीते: घटापसरणे सति तु प्रतीतेश्च भूतले घटसंयोगप्रागभावध्वंसयोघंटाभावप्रतीतेर्नियामकत्वं कल्प्यते । घटवति तत्संयोगप्रागभावध्वंसयोरसत्त्वादत्यन्ताभावस्याप्रतीतिः घटापसरणे च संयोगध्वंससत्त्वात् प्रतीतिः ( त० दी० पृ० ४१) इति । ... सामर्थ्यम्-१ यत्किंचित्कार्यजननयोग्यत्वम् ( दीधि० २ पृ० २०९ )।
तच्च यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ पृ० ९४ ) इत्यादौ ग्रन्थे समर्थशब्दार्थघटकम् विरोधिपरामर्शस्य विरोध्यनुमितिजननयोग्यत्वरूपं सामर्थ्यम् । २ कचित् आकाङ्क्षायोग्यतादिमत्त्वम् ( गौ० वृ० २।१।५२ ) । यथा आप्तोपदेशसामर्थ्यात्० ( वात्स्या० २।१।५२ ) इति । ३ समासाघटकपदनिराकाङ्कत्वे सति परस्परसमासघटकपदसाकाङ्कत्वम् ( कृष्णं० )। यथा राजपुरुषः इत्यादौ राजपदपुरुषपदयोः सामर्थ्यम् । एतच्च सामर्थ्य द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति । अयं च शाब्दिकविभागः इति बोध्यम् । तत्र व्यपेक्षा च स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशात्परस्परं संबन्धवत्त्वे सत्येकोपस्थित्यजनकत्वम् इति । एकार्थीभावश्च विशेषणविशेष्यभावावगाटकोपस्थितिजनकत्वम् इति । शिष्टं तु
समासशब्दव्याख्याने दृश्यम् । सामानाधिकरण्यम्-१ [क] तदधिकरणवृत्तित्वम् । यथा वह्निधूमयोः
सामानाधिकरण्यम् । इदं सामानाधिकरण्यं द्विविधम् दैशिकम् कालिकं चेति । तत्र दैशिकं सामानाधिकरण्यं यथा वह्निधूमयोः सामानाधिकरण्यम् । कालिकं सामानाधिकरण्यं यथा एककालावच्छेदेन वर्तमानयोः विभिन्नदेशाधिकरणकयोरपि घटपटयोः सामानाधिकरण्यम् इति विज्ञेयम् । अत्रेदं प्रसङ्गतो विज्ञेयम् । अनुमितेः सामानाधिकरण्यमात्रावगाहित्वं च पक्षतावच्छेदकावच्छिन्नोद्देश्यतानिरूपितशुद्धसाध्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org