________________
न्यायकोशः। सामग्र्या पर्वतादौ वह्निप्रत्यक्षमेवोत्पद्यते न त्वनुमितिः इत्यनुभवसिद्धः सिद्धान्तः । भिन्ने विषये तु प्रत्यक्षानुमितिसामग्र्योर्मध्येनुमितिसामग्री प्रबला यथा भूतलादौ घटादिप्रत्यक्षजनिकायाः घटचक्षुःसंयोगादिरूपायाः पर्वतादौ तु वह्नयाद्यनुमितिजनिकाया व्याप्तिज्ञानादिघटितायाश्च सामग्र्या युगपत्सत्त्वेनुमितिसामग्र्याः प्राबल्येन तया पर्वतादौ वह्नयाद्यनुमितिरेवोत्पद्यते न तु घटवद्भूतलादिप्रत्यक्षम् इति । एवमग्रेप्यूह्यम् । सामयिकः-समयः कालः नियमो वा । तत्र भवः उचितो वा (ठञ् )
सामयिकः । तथा च निजधर्माविरोधेन यस्तु सामयिको भवेत् इति स्मृत्या नियमबद्धः इत्यर्थः । सामयिकाभावः -अत्यन्ताभावः ( त० दी० ४ )। तदर्थश्च सामयिकः
समयविशेषे प्रतियोगिविरहसमये प्रतीयमानः अभावोत्यन्ताभावः सामयिकाभावः (नील० पृ० ४१) इति । केचित्तु उत्पादविनाशशाली अत्यन्ताभावादतिरिक्तोयमभावः इत्याहुः (वै० वि० ९।११५) । अत्रेदमाकूतम् । यत्र भूतले पूर्व घटादिकं स्थितमथापसारितं तत्रायं चतुर्थः संसर्गाभावः प्रतीयते नात्यन्ताभावः (वै० वि० ९।१।५) इति । अयमभिप्रायः । सामयिकाभावस्यात्यन्ताभावस्वरूपत्वाङ्गीकारेत्यन्ताभावस्य नित्यत्वेन भूतलादौ घटसत्त्वेपि तदपसारणदशायामिव तदत्यन्ताभावबुद्ध्यापत्तिः । तथाविधात्यन्ताभावस्याप्रतीयमानत्वात्तु तद्तिरिक्तोयमभावोङ्गीकार्यः। भूतलादौ. घटसत्त्वदशायां न तदभाववत्ताबुद्धिः । अन्यदा तु जायते । अतः सामयिकाभावोतिरिक्त एवाङ्गीकर्तव्यः ( नील० पृ० ४१ ) इति । तन्न सहन्ते नैयायिकाः । तथा हि । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटानयनानन्तरमपि अत्यन्ताभावस्य नित्यत्वेपि च घटकालस्य संबन्धाघटकत्वात् संबन्धाभावात् घटकाले न घटात्यन्ताभावबुद्धिः ( दि. १ पृ० ४३ )। तथा च कालविशेषविशिष्ट स्वरूपस्य संसर्गत्वोपगमादेव घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे मानाभावः ( दि० १ पृ० ४३ ) इति । घटाद्यनधिकरणकालावच्छिन्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org