________________
न्यायकोशः।
२०१५ पृ० ८१ ) इति । अयं संनिकर्षश्च अतीतानागतानामिन्द्रियासंनिकृष्टानां सामान्याश्रयाणां सर्वेषां व्यक्तीनामलौकिकं प्रत्यक्षं जनयति इति बोध्यम्। सामान्यलक्षणायाः प्रत्यासत्त्याः सामान्यप्रकारकज्ञानजनकत्वनियमात् (दीधि० २)। मीमांसका मायावादिवेदान्तिनश्च सामान्यलक्षणं संनिकर्ष नाङ्गीचक्रुः (म० प्र० ४ पृ० ३९ )। तत्र सहन्ते नैयायिकाः । यदि सामान्यलक्षणा प्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे वह्निसंबन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकलधूमोपस्थितौ धूमान्तरे विशेषादर्शनेन संशयो युज्यते (चि० २ पृ० १८-१९ ) । अतः सामान्यलक्षणावश्यको इति । अत्र सामान्य च सखण्डाखण्डभेदेन द्वधा । सखण्डे चाखण्डमेव परंपरया संबद्धं प्रत्यासत्तिः । येन संबन्धेन चेन्द्रियसंबद्धे सामान्य ज्ञायते तेन संबन्धेनाधिकरणानां प्रत्यासत्तिः (दीधि० २ पृ० ८१ ) । अत्र इन्द्रियसंबद्ध इत्युक्त्या इन्द्रियसंबन्धस्य संयोगादेरिन्द्रियप्रतियोगिकत्वात् तद्धटितस्येन्द्रियसंयुक्तविशेष्यकज्ञानप्रकारीभूतधूमत्वादेः प्रत्यासत्तित्वं
जन्यत्वघटितव्यापारत्वं च निर्वहति इति विज्ञेयम् ( दि० १ पृ०१२७ )। · अत्र बहिरिन्द्रियस्य संबन्धश्च लौकिको ग्राह्यः । तेन एतादृशसंबन्धघटितं सामान्यं बहिरिन्द्रियप्रत्यक्षस्थले झुपयुज्यते ( मु०१ पृ० १२९) ( सि० च० )। ज्ञानस्य तदिन्द्रियजन्यत्वं च नियामकम् । एवं च अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणुगोचरो मानसो बोधः इति वदन्ति ।. दीधितिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं निराकृतम् इति विज्ञेयम् । [ख] ज्ञानप्रकारीभूतं सामान्यम् । यथा घटत्वपरमाणुत्वादि । अत्र अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणुगोचरो मानसो बोधो भवति इति भावः । इदं मानसप्रत्यक्षस्थले ह्युपयुज्यते (मु० ) (सि० च० ) । २ सामान्यविषयकं ज्ञानम् । यथा घटत्वज्ञानम् (मु० १ पृ० १३० ) ( सि० च० )। तथा हि अयं घटः इति घटत्वविषयलौकिकप्रत्यक्षेण सर्वे घटाः इति सकलघटविषयकालौकिकप्रत्यक्षं जायते ( सि० च० ) इति । सामान्यविषयकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org