________________
न्यायकोशः। तुल्यतापादनम् (गौ० वृ० ५।११४ )। [ग] दृष्टान्तस्य पक्षतुल्यताकथनं साध्यसमः । साध्यशब्दोत्र पक्षवाची (नील० पृ० ४३ )। तथा चोक्तम् दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यत्वापादनं तस्माल्लिङ्गात्साध्यसमो भवेत् ॥ ( ता० र० २ श्लो० ११० ) इति । यथा वा नाभिधा समयाभावात् ( काव्यप्र० २।२२ ) इत्यत्र नैयायिकमते साध्यसमः । मीमांसकमते नायं दोषः । अभिधासमययोभेदात् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् इत्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा च यद्यात्मनि क्रियावत्त्वं साध्यते तर्हि लोष्टेपि तत्साधनीयम् । नेति चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम् । लोष्टसदृश आत्मा नात्म
सदृशो लोष्टः इत्यत्र नियामकाभावादिति ( नील० १ पृ० ४३ )। साध्याप्रसिद्धिः-( हेतुदोषः असिद्धिः ) साध्ये साध्यतावच्छेदकस्या
भावः । यथा पर्वतः काञ्चनमयवह्निमान् धूमात् इत्यादौ वह्निनिष्ठः काञ्चनमयत्वाभावः साध्याप्रसिद्धिः । अयं च व्याप्यत्वासिद्धिप्रभेदः ( गौ० वृ० १।२।८ ) (मु० २ पृ० १६१ ) ( नील० ) ( न्या० म० २ पृ० २१) (म० प्र० २ पृ० २७ ) (वै० वि० ३।१।१५)। तल्लक्षणं च साध्ये साध्यतावच्छेदकवैशिष्ट्यावगाहिग्रहविरोधिग्रहविषयत्वम् । एतज्ज्ञाने जाते साध्यतावच्छेदकविशिष्टसाध्यपरामर्शप्रतिबन्धः फलम् । तथा च प्रतिबन्धकताघटितहेत्वाभाससामान्य
लक्षणाक्रान्तत्वं साध्याप्रसिद्धः संगच्छते इति । सानन्दः-(समाधिः) यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुख
प्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः ( सर्व० सं० पृ० ३५७ पात०)। सापिण्ड्यम्-सपिण्डता। सापेक्षत्वम्-१ असामर्थ्यम्। २ अभिलाषविशिष्टत्वम् इति काव्यज्ञा आहुः । साम- १ वेदविशेषः । गीतिरूपा मन्त्राः सामानि ( जै० न्या० अ० २
पा० १ अधि० १२) । यथा अग्न आयाहि वीतये इत्यादिः । २ सामवेदोक्तामृचमधिकृत्य गेयो गानविशेषः । यथा अग्न आयाहि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org