________________
१००४
न्यायकोशः। साध्यसंसृष्टत्वज्ञानम्-१ सिद्धिः । अयमर्थो गदाधयां पक्षतायां सिद्धि
प्रन्थे तत्रत्यशब्दार्थसंकलनवेलायामुपयुज्यते । २ साध्यसंबन्धविषयकं
ज्ञानम् (मु० २ पृ० १६४ )। साध्यसमः-१ ( हेत्वाभासः असिद्धः ) साध्याविशिष्टः साध्यत्वात्साध्य
समः (गौ० १।२।८ ) । तदर्थश्च साध्येन वह्नयादिना अविशिष्टः । कुत इत्यत आह साध्यत्वादिति । साधनीयत्वादित्यर्थः । यथा हि साध्यं साधनीयम् तथा हेतुरपि चेत् साध्यसमः . इत्युच्यते । अत एव च असिद्धः इति व्यवह्रियते ( गौ० वृ० १।२।८ )। अत्रोच्यते असिद्धः साध्यतुल्यत्वाद्धेतुः साध्यसमो भवेत् ( ता० र० श्लो० ८४ ) इति । अत्र व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिशब्दार्थः । द्रव्यं छायेति साध्यम् । गतिमत्त्वादिति हेतुः। साध्येनाविशिष्टः साधनीयत्वात्साध्यसमः। कथम्। अयमप्यसिद्धत्वात् साध्यवत्प्रज्ञापयितव्यः। साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति आहोस्विदावरकद्रव्ये संसर्पत्यावरणसंता-(संनिधा) नादसंनिधिसंतानोयं तेजसो गृह्यत इति । सर्पता खलु द्रव्येण यो यस्तेजोभाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति । आवरणं तु प्राप्तिप्रतिषेधः ( वात्स्या० ११२।८ )। २ ( जातिः) [क] साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वात्साध्यसमः ( गौ० ५।१।४ )। सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ । तद्धर्मो हेत्वादिः । तत्साध्यत्वं तदधीनानुमितिविषयत्वम् । साध्यस्येव पक्षादेरपीति तुल्यतापादनमिति । लिङ्गोपहितभानमते लिङ्गस्यानुमितिविषयत्वात् साध्यसमत्वम् । हेतोश्च साध्यत्वे हेतुमान्दृष्टान्तोपि साध्यः इत्याशयः । आश्रयासिद्ध्यादिदेशनाभासोयम् इति ज्ञेयम् (गौ० वृ० ५।१।४ )। हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः। तं दृष्टान्ते प्रसजतः साध्यसमः । यथा आत्मा सक्रियः क्रियाहेतुगुणयोगात् इत्यादौ यदि यथा लोष्टस्तथात्मा प्राप्तस्तर्हि यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोपि साध्यः । अथ नैवम् । न तर्हि यथा लोष्टस्तथात्मा ( वात्स्या० ५।१।४ )। [ख] पक्षदृष्टान्तादेः प्रकृतसाध्य
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org