________________
न्यायकोशः ।
1
दत्यन्ताभावभेदाः प्रदर्श्यन्ते । सामान्याभावश्च – स्वान्यूनानतिरिक्तवृत्तित्वस्वनिष्ठावच्छेदकतानिरूपितत्वोभयसंबन्धेन सामान्यधर्मविशिष्टप्रतियोगिताकाभावः । विशेषाभावश्च - उक्तोभयसंबन्धेन विशेषधर्मविशिष्टप्रतियोगिताकाभावः । व्यधिकरणधर्मावच्छिन्नाभावश्च स्वाश्रयावृत्तित्वस्वनिष्ठाव1 च्छेदकतानिरूपितत्वोभयसंबन्धेन किंचिद्धर्मविशिष्टप्रतियोगिताकाभावः । विशेषरूपेण सामान्याभावश्च स्वसामानाधिकरण्यस्वाधिकरणवृत्त्यभावप्रतियोगित्वोभयसंबन्धेन प्रतियोगित्वविशिष्टधर्मावच्छिन्नप्रतियोगिताकाभावः । सामान्यरूपेण विशेषाभावश्च स्वसामानाधिकरण्यस्वाधिकरणवृत्त्यभावाप्रतियोगित्वोभयसंबन्धेन प्रतियोगित्व विशिष्टधर्मावच्छिन्नप्रतियोगिताकाभावः (ल० व० ३८-३९ ) । २ प्रमाणविशेषः । व्याप्तिसापेक्षोनुमानम् । तच्च विरोध्यभावज्ञानाधीनं विरोध्यन्तरकल्पनम् । यथा नकुलाभावज्ञाने नकुलविरोधिनो व्यालस्य कल्पनम् । कारणाभावादिना कार्याभावादिज्ञानम् (गौ० वृ० २।२।१ ) । अत्रायमाशयः - न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ( गौ० २/२/१ ) इत्यत्राभावस्य प्रमाणान्तरत्वं केचिदाशशङ्किरे । तन्न । अभावनिष्ठव्याप्तेरनुमानाङ्गत्वे विरोधाभावात् । तेनाभावस्यानुमानान्तर्गतत्वमेव न तु प्रमाणान्तरत्वमिति ( गौ० वृ० २।२।२ ) ।
अभावत्वम् - [क] इदमिह नास्ति इदमिदं न भवति इत्यादिप्रतीतिनियामको भावाभावसाधारणः स्वरूपसंबन्धविशेष: ( दीधि० २ ) | [ख] प्रतियोगिज्ञानाधीनज्ञानविषयत्वम् ( सि० च० ४ ) ( ल०व० ४ ) । [ग] द्रव्यादिषट्कान्योन्याभाववत्त्वम् ( मु० १४१ ) । [घ] भावभिन्नत्वम् ( वाक्य ० १ ) ( सि० च० १1४ ) । [ ङ ] समवायकार्थसमवाय ( सामानाधिकरण्य) एतदन्यतरसंबन्धावच्छिन्नप्रतियोगिताकसत्ताभाव इति नव्याः ( दि० १४१ ) । [च] भावव्यावृत्तोखण्डोपाधिः अनुयोगिताविशेषो वेति संप्रदाय: ( मू० म० १ ) ( सि० च० ४ ) ( दि० १।४१ ) ।
६८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org