________________
न्यायकोशः। अभिगमनम्— ( उपासनम् ) देवतास्थानमार्गस्य संमार्जनोपलेपनादि
( सर्व० सं० पृ० ११७ रामानुज० )। अभिघातः-( संयोगः ) [ क ] यः संयोगः शब्दनिमित्तकारणं भवति
यजनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषोभिघातः (वै० उ० ५।२।१ )। यथा कुठाराघभिघातः ( वै० वि०
५।२।१ )। [ख] स्थिरस्य वेगवद्रव्यसंयोगविशेषः । अभिचारः-[क] मारणम् । शत्रुवध इत्यर्थः । यथा श्येनेनाभिचरन्य
जेतेत्यादावभिचारः । [ख] वैरिवधाद्युत्कटकामना (त० प्र० ख० ४ पृ० १०)। अत्र विप्रतिपद्यन्ते । हिंसा च मरणोद्देश्यकः अदृष्टाद्वारकमरणानुकूलव्यापारः । तेन श्येनस्य न हिंसात्वम् । अदृष्टद्वारकत्वात् । एवं च श्येनेनाभिचरन्यजेतेत्यादौ बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वादेविशिष्टस्य विध्यर्थत्वेपि तादृशविध्यर्थान्वयबोधो भवत्येवेति प्राञ्चो नैयायिका आहुः । अत्रायमभिप्रायः-प्रथमं श्येनः ततो वधः ततः अपूर्वम् ततो मरणमिति स्थितिः । तथा च श्येनो न स्वरूपतो निषिद्धः किं तु फलत इति बलवदनिष्टाननुबन्धित्वमप्यक्षतम् । तथापि वधाच्च नरक इति न तत्रास्तिकानां प्रवृत्तिरिति (न्या० म० ४।२७)। (म० प्र० ६०)। नव्यास्तु-श्येनस्याभिचारतया पापजनकत्वस्मरणान्मरणोद्देश्यकं मरणप्रयोजकव्यापारमात्रं हिंसेति निर्वचनीयम् । न त्वदृष्टाद्वारकत्वविशेषणेनापि घटितम् । तेन च श्येनस्य हिंसात्वमस्त्येव । तथा च विधिप्रत्ययस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वविशिष्टकृतिसाध्यत्व एका शक्तिरयुक्ता । किं तु बलवदनिष्टाननुबन्धित्वम् इष्टसाधनत्वं कृतिसाध्यत्वं चैतत्रिषु पृथक् शक्तित्रयं स्वीकृत्य कचित्कस्यचित् कचित्कस्यचिदर्थस्य बोध इत्यङ्गीकरणीयम् । एवं च श्येनेनेत्यादौ बलवदनिष्टाननुबन्धित्वस्य अविवक्षितत्वात् बोधो न भवत्येवेत्याहुः । केचित्तु श्येनो हि न हिंसा किं तु श्येनस्य फलं हिंसा। सा च साक्षान्मरणानुकूलव्यापारः । स च व्यापारः श्येनजन्यः खड्गाघातादिरूपः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org