________________
न्यायकोशः।
१००१ साधारण्यम्-साधारणवृत्तिधर्मः । स च साधारणत्वादिः । साधुः-१ प्रियकारी । यथा मातरं प्रति साधुः इत्यादौ साधुशब्दस्यार्थः (ग० व्यु० का० २ ख० २ पृ० ७६ )। २ यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः ( संज्ञाविशिष्टः )। यथा या काचिदोषधिनकुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविष हन्ति इत्येतादृशी संज्ञा ( ईश्वरसंकेतः ) ( वै० उ० २।१।१९ पृ० ९४ ) इति । ३ शाब्दिकास्तु यः शब्दो यस्मिन्नर्थे व्याकरणेन व्युत्पादितः स तत्र साधुः प्रयोगार्हः (चि० ४ )। स च व्याकरणव्यङ्गयसाधुताजात्याश्रयः शब्दः । यथा कर्मणि द्वितीया ( पाणि० २।३।२ ) इत्यादौ द्वितीया कर्मार्थे साधुः इत्याहुः । अत्र साधुत्वं च अर्थविशेषे व्याकरणानुशिष्टजातीयत्वम् । अत्र जातीयत्वोपादानान्नाधुनिकचैत्रादिशब्देष्वव्याप्तिः ( म० प्र० ४ ) । अत्रोक्तम् अनपभ्रंशतानादिर्यद्वाभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता ॥ ( भर्तृ० ) इति । तदर्थस्तु अनपभ्रंशत्वम् अनादित्वम् अभ्युदयसाधनप्रयोगविषयत्वम् व्याकरणव्यङ्गया जातिर्वा साधुता इति ( वाच० ) । ४ पौराणिकास्तु साधुलक्षणयुक्तो जन इत्याहुः । तल्लक्षणं तु न प्रहृष्यति संमाने नापमाने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्वै साधुलक्षणम् ॥ (गरुडपु० ) इति । यथालब्धेपि संतुष्टः समचित्तो जितेन्द्रियः । हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ निर्वैरः सदयः शान्तो दम्भाहंकारवर्जितः । निरपेक्षो मुनितिरागः साधुरिहोच्यते ॥ ( पद्मोत्त. ख० अ ९९ ) इति च । साध्वीलक्षणं तु पतिं या नाभिचरति मनोवाकायसंयता । या भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ ( मनु० अ० ९ श्लो० २९) इति । ५ काव्यज्ञाश्च उत्तमकुलजातः । ६ सुन्दरः । ७ उचितः । ८ मुनिः इत्याहुः । ९ जिनः इति जैना
आहुः ( हेमच० )। साध्यता-१ विषयताविशेषः। तच्च [क] पञ्चावयवसाधनीयत्वम्
(गौ० वृ० ५।१।४ )। स च साधयामि साध्यविशेषं वह्नयादिकम् १२६ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org