________________
१००२
न्यायकोशः ।
इति प्रतीत्या गम्यत इति विज्ञेयम् । [ख] अनुमितिविधेयत्वम् । यथा पर्वतो वह्निमान् धूमात् इत्यादौ वह्नेः साध्यत्वम् । [ग] सिद्धिकर्मत्वम् ( त० प्र० ) ( दि० गु० ) । यथा पर्वतो वह्निमान् इति निश्चयविषयत्वं वह्नेः । सिद्धिकर्मत्वमित्यत्र कर्मत्वं च विषयत्वम् ( दि० गु० ) । [घ] वेदान्तिनस्तु यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म इत्याहुः ( प्र० च० पृ० २३ ) । २ इच्छाविषयताविशेषः । यथा घटो जायताम् इत्यत्र घटीया साध्यताख्या विषयता । यथा वा पाक्तः साध्यताम् इतीच्छाविषयत्वम् । ३ अनन्तरभविष्यत्वम् (त० प्र० ४ पृ० १०२ )। यथा यागस्य कृतिसाध्यत्वम् । यथा वा घटादेर्दण्डचक्रादिघटितसामग्रीसाध्यत्वम् । अत्रेदं बोध्यम् । साध्यत्वं चासिद्धधर्मः । भाविकालवृत्तिधर्म इत्यर्थः । साधनत्वं तु सिद्धो धर्मः । पूर्वकालवृत्तिधर्मः इत्यर्थः ( तo प्र० ख० ४ पृ० १०२ ) । साध्यताघटकसंबन्धः —— येन संबन्धेन साध्यता विवक्ष्यते स संबन्धः । 'यथा पर्वतादौ संयोगेन वह्नयादिसाधने संयोगसंबन्धः साध्यताघटकसंबन्धः । यथा वा तमः समवायेन गगनवत् इत्यादौ समवाय संबन्धः ( दीधि ० ) ( ग० संश० पक्ष० पृ० ५ ) । एवम् प्रतियोगितावच्छेदकसंबन्धानुयोगितावच्छेदकसंबन्धादयः स्वयमूह्याः ।
साध्यतावच्छेदकम् - येन धर्मेण संबन्धेन वा साध्यतावच्छिद्यते सः ।
यथा पर्वते संयोगसंबन्धेन वह्नेः साधने पर्वतः संयोगेन वह्निमान् इत्यादौ वह्नित्वं संयोगश्च साध्यतावच्छेदकः । अत्र वह्निः साध्यः । तन्निष्ठां साध्यतां वह्नित्वं संयोगश्चावच्छिनत्ति इति ज्ञेयम् । एवम् कारणतावच्छेदककार्यतावच्छेदके लक्ष्यतावच्छेदकलक्षणतावच्छेदके उद्देश्यतावच्छेदकविधेयतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदके इत्यादयः शब्दा यथायोग्यं व्याख्येयाः इति । अत्र व्युत्पत्तिः साध्यतामवच्छिनत्ति विशेषयति ( ण्वुल् ) इति । अत्र साध्यतावच्छेदकत्वं च स्वरूपसंबन्धविशेषः विषयताविशेषो वा । साध्यतावच्छेदक संबन्धः - साध्यता घटकसंवन्धः ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org