________________
न्यायकोशः ।
1
वद्गामित्वम् ( चि० बाध० ) ( न्या० बो० ) । [ घ ] साध्यवदन्यवृत्तित्वम् इत्यादि । यथा धूमवान्वह्नेः इत्यत्र धूमवदन्यस्मिन् तप्ताय: पिण्डे वह्नेः सत्त्वाद्वह्नेः साधारणत्वम् ( न्या० म० २ पृ० २० ) । एतल्लक्षणद्वयेन प्रदर्शितं साधारणत्वं पूर्वपक्षीयम् । तच्च व्यभिचार इति व्यवह्रियते ( दीधि० २ बाध० पृ० २२४ ) । [ ङ ] साध्यासमानाधिकरणस्वसमानाधिकरणत्वम् । यथा धूमवान्वह्नेः इत्यत्र वह्नेः साधारणत्वम् । भवति हि धूमासमानाधिकरणं यत् धूमवदन्यत्वम् तत्समानाधि - करणो वह्निः (न्या० म० २ ० २० ) इति । साध्यतावच्छेदके हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वम् (ग० सामा० ) ( नील० ) इति तत्तात्पर्यम् । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्वस्य साधारणत्वम् । इदं च सिद्धान्तसिद्धं साधारणत्वम् इति बोध्यम्। अभिधेयत्वं प्रमेयत्वस्य व्यभिचारि इत्याकारकभ्रमात्मकव्यंभिचारग्रहस्य व्यापकसामानाधिकरण्यग्रह विरोधितया तद्विरोधित्वान्यथानुपपत्त्येदं लक्षतं स्वीकार्यम् । तेन तत्र प्रमेयत्वाभावाप्रसिद्ध्या पूर्वपक्षीयव्यभिचारग्रहासंभवेपि न क्षतिः (ग० २ सामा० ल० १ पृ० ५ - ६ ) । साधारणधर्म :- १ [क] तदितरवृत्तित्वे सति तद्वृत्तिर्धर्मः । यथा प्रमेयत्वं
1
गोः साधारणधर्मः । यथा वा मुखं पद्ममिव सुन्दरम् इत्यादौ सौन्दर्यादिः । [ ख ] समानधर्मः । २ स्वाभाविकधर्मः । यथा प्रजासर्जनादिरूपो जन्तुमात्रधर्मः । तदुक्तम् प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पल्या सहोदितः ॥ ( मनु० अ० ९ श्लो० ९६ ) इति । अत्र अभ्याधानादिरपि स्त्रीपुंसयोः साधारणो धर्म: ( मनु० टी० कुल्लूक० अ० ९ ० ९६ ) । ३ धर्मज्ञास्तु ब्राह्मणादिचातुर्वर्ण्यविहितो धर्मः । यथा अहिंसादिः इत्याहुः । न हिंस्यात्सर्वा भूतानि (श्रुतिः ) इत्याचाण्डालं साधारणो धर्मः - ( मिता० १।१ पृ० १ ) । तदुक्तम् अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् || ( याज्ञ० अ० १ श्लो० १२१ ) ( मनु० अ० १० लो० ६३ ) इति ।
१०००
Jain Education International
For Personal & Private Use Only
.
www.jainelibrary.org