________________
न्यायकोशः। मिता० पृ० १६७ ) इत्यादौ साधारणशब्दस्यार्थ इत्याहुः ( अमर; ३।११८२)। अन्यदप्युदाह्रियते साधारणं समाश्रित्य यत्किंचिद्वाहनादिकम् ( स्मृतिः ) इति । ४ सदृशम् इति साहित्यशास्त्रज्ञा आहुः ( अमरः २।१०।३७ )। ५ वेश्यादिनायिका साधारणी इत्यालंकारिका आहुः ।
६ कुञ्चिका इति काव्यज्ञा आहुः । साधारणकारणत्वम्- ( कारणत्वम् ) [क] कार्यत्वावच्छिन्नकार्यता
निरूपितकारणत्वम् । यथा ईश्वरतज्ज्ञानादेः कार्यमात्रे ) कार्यत्वावच्छिन्नं प्रत्येव ) कारणत्वात् साधारणकारणत्वम् (वाक्य० १ पृ० १०) (न्या० बो० १ पृ० ८)। अत्र ईश्वरज्ञानस्य च ज्ञानत्वेन कार्यत्वेन कार्यकारणभावात् सामान्यधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वेन घटं प्रत्यपि साधारणकारणत्वम् ( म० प्र० १ पृ० ५)। [ख] सामान्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् (म० प्र० १ पृ० ५)। अत्रायमाशयः । कार्यमानं प्रतीश्वरज्ञानादिकं कारणम् इति कार्यकारणभावः । न तु घटं प्रति, दण्डः पदं प्रति तन्तुः कारणम् इति विशिष्य कार्यकारणभाववत् घटादिकं प्रतीश्वरादिकं कारणम् इति कार्यकारणभावः इति । अत्रेदं ज्ञेयम् । अष्टौ साधारणकारणानि ईश्वरः तज्ज्ञानेच्छाकृलयः प्रागभावः कालः दिक् अदृष्टम् (धर्माधर्मों ) च ( वाक्य० १ पृ० १० ) इति । केचित्तु प्रतिबन्धकसामान्याभावोपि
नवमं साधारणकारणमङ्गीचक्रुः (मु० १।१ )। साधारणत्वम्- ( हेत्वाभासः हेतुदोषः ) [क] पक्षादित्रयवृत्तित्वम् ।
अत्र पक्षादित्रयं च पक्षः सपक्षः विपक्षश्च । तेषु वर्तमानत्वम् इति विशिष्टस्यार्थः । यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यादौ प्रमेयत्वस्य साधारणत्वम्। अत्र प्रमेयत्वात्मकहेतोः पक्षे पर्वते सपक्षे महानसे विपक्षे महाहदादौ च वर्तमानत्वात्साधारणत्वम् इति बोध्यम् । [ख] विपक्षवृत्तित्वम् (चि० २ सव्य० पृ० ८७ )। अत्र विपक्षः साध्याभाववान् इति नव्यमतम् । विपक्षः निश्चितसाध्याभाववान् इति प्राचीनमतम् इति विज्ञेयम् (दीधि० २ सव्य० पृ० १९३ )। [ग] साध्यात्यन्ताभाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org