________________
९९६
न्यायकोशः।
द्रव्याणाम् । गुणाश्रयवृत्तिसत्ताभिन्नजातिमत्त्वम् इत्यर्थः (ल० व० ) ( त० दी० १ पृ० ५)। गुणसमानाधिकरणमनोवृत्तिधर्मवत्त्वं क्षित्याद्यष्टद्रव्याणम् । आत्ममनःसंयोगाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं क्षित्यादिसप्तानाम् । जगदाधारत्वभूतत्वान्यतरवत्त्वं क्षित्यादीनां षण्णाम् । पृथिव्यादीनां पञ्चानां भूतत्वम् इन्द्रियप्रकृतित्वं च । पृथिव्यादिचतुर्णा द्रव्यारम्भकत्वम् स्पर्शवत्त्वं च । द्रव्यारम्भकत्वं च द्रव्यसमवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् । तेन न द्रव्यानारम्भकघटादावव्याप्तिः (मु० १ पृ० ५९ ) । रूपवत्त्वम् द्रवत्ववत्त्वम् प्रत्यक्षविषयत्वं च पृथिव्यादित्रयस्य । गुरुत्ववत्त्वम् रसवत्त्वं च पृथिवीजलयोः । नैमित्तिकद्रवत्ववत्त्वं पृथिवीतेजसोः । गन्धाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं जलाद्यष्टद्रव्याणाम् । रसासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं तेजःप्रभृतिसप्तद्रव्याणाम् । रूपासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं वायवादीनां षण्णाम् । स्पर्शवदवृत्तिद्रव्यविभाजकधर्मवत्त्वमाकाशादीनां पञ्चानाम् । भूतावृत्तिद्रव्यविभाजकधर्मवत्त्वं कालादीनां चतुर्णाम्। कालोपाध्यसमानाधिकरणशब्दवदवृत्तिद्रव्यविभाजकोपाधिमत्त्वं दिगात्ममनसाम् । स्वसमवायिकारणत्वस्वकरणेन्द्रियत्वान्यतरसंबन्धेन सुखप्रत्यक्षवत्त्वमात्ममनसोः। पृथिव्युदकज्वलनपवनजीवात्ममनसामनेकत्वापरजातिमत्त्वे । आकाशकालदिगात्मनां सर्वगतत्वम् ( विभुत्वम् ) परममहत्त्वम् सर्वसंयोगिसमानदेशत्वं च । पृथिव्युदकजीवात्मनां चतुर्दशगुणवत्त्वम् । दिक्कालयोः पञ्चगुणवत्त्वम् । सर्वोत्पत्तिमतां निमित्तकारणत्वम् । विशेषगुणवत्त्वं भूतानाम् आत्मनां च । परत्वम् अपरत्वम् मूर्तत्वम् कर्मवत्त्वम् वेगवत्त्वं च पृथिव्यादिचतुष्टयस्य मनसश्च । अव्याप्यवृत्तिविशेषगुणवत्त्वम् क्षणिकविशेषगुणवत्त्वं च आकाशजीवपरमात्मनाम् साधयं भवति (प्रशस्त० १११ पृ० २) (भा० प० ) (मु० १) ( सि० च० ) इति । क्षणिकविशेषगुणवत्त्वं च चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वम् (मु० १ पृ० ६१ )। तथा हि । चतुःक्षणवृत्तीनि यानि जन्यानि घटा१ अवृत्तीति पदच्छेदः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org