________________
९९७
न्यायकोशः। दीनि तदवृत्तिर्या जातिः ज्ञानत्वादिः तद्वान् विशेषगुणः ज्ञानादिः तद्वत्त्वस्यात्मादी सत्त्वाल्लक्षणसमन्वयः (दि. ११ पृ० ६१ ) । अत्रेदं बोध्यम् । यद्याकाशजीवात्मनोरेव साधर्म्यमुच्यते तदास्मिन्परिष्कारे जन्य इति पदं न देयम् । द्वेषत्वादिकं धर्ममादाय तत्र लक्षणसमन्वयः कर्तव्यः (मु० १।१ पृ० ६१ )। एवमन्येषामपि तत्तत्साधर्म्य स्वयमूह्यम् । ( किर० १११ पृ० ३९) । तथा हि । रूपादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धः गुणादीनां द्रव्याश्रितत्वम् समवायिकारणत्वानाश्रयत्वं
च साधर्म्यम् इत्यादि ( प्रशस्त० पृ० ११)। साधर्म्यसमः—(जातिः) [क] साधर्म्यणोपसंहारे तद्धर्मविपर्ययोपपत्तः
साधर्म्यसमः ( गौ० ५।१।२)। तदर्थश्च उपसंहारे साध्यस्योपसंहरणे वादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य साधम्र्येण केवलेन व्याप्त्यनपेक्षेण यदुपपादनम् ततो हेतोः साधर्म्यसम उच्यते ( गौ० वृ० ५।१।२ ) इति । साधर्म्यमात्रं गमकतौपयिकम् इत्यभिमानात् सत्प्रतिपक्षदेशनाभासोयम् । वार्तिककृतस्तु अयमनैकान्तिकदेशनाभासः इत्यङ्गीचक्रुः ( गौ० वृ० ५।१।२ )। अत्र भाष्यम्। साधयेणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधयेणैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम् क्रियावानात्मा। द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् । तथा चात्मा। तस्माक्रियावान् इति । एवमुपसंहृते परः साधयेणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा। विभुनो द्रव्यस्य निष्क्रियत्वात्। विभु चाकाशं निष्क्रियं च । तथा चात्मा । तस्मानिष्क्रियः इति । न चास्ति विशेषहेतुः क्रियावत्साधात् क्रियावता भवितव्यम् न पुनरक्रियसाधान्निष्क्रियेण इति । विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति ( वात्स्या० ५।१।२ )।[ख] वादिनान्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतुना तदभावापादनम् । यथा शब्दः अनित्यः कृतकत्वाद्बटवत् व्यतिरेकेण वा व्योमवत् इत्युपसंहृते नैतदेवम् यद्यनित्यघटसाधान्नित्याकाशवैधाद्वा अनित्यः स्यात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org