________________
न्यायकोशः।
ज्ञानादेरभावः फलम् (मु० २ पृ० १६२)। अथ वा साधनाप्रसिद्धिग्रहदशायाम् हेतुतावच्छेदकविशिष्टे साध्यव्याप्तिग्रहप्रतिबन्धः फलम् (नील० २ पृ० २६ )। शिष्टं तु व्याप्यत्वासिद्धिशब्दव्याख्यानावसरे
संपादितं तत्तत्र दृश्यम् । साधनासिद्धिः-साधनाप्रसिद्धिः। - साधर्म्यदृष्टान्तः–अन्वयव्याप्तिग्रहणस्थलम् । यथा धूमेन वह्नयनुमाने
महानसः । यत्र यत्र धूमस्तत्राग्निर्यथा महानसः इति (प्र० च० पृ०
२८)। अत्राधिकं तु दृष्टान्तशब्दे अन्वयदृष्टान्तशब्दे च दृश्यम् । साधर्म्यनिदर्शनम्-[क] अन्वयदृष्टान्तः । [ख] अनुमेयेन सामान्येन लिङ्गसामान्यस्यानुविधानदर्शनम् । तद्यथा यत् क्रियावत् तद्रव्यं दृष्टं यथा शरः इति ( प्रशस्त० २ पृ० ४८)। [ग] अन्वय्युदा
हरणम्। साधर्म्यनिदर्शनाभासः-(निदर्शनाभासः ) लिङ्गानुमेयोभयाश्रयासिद्ध्य
ननुगतविपरीतानुगतः । यथा यदनित्यं तन्मूतं दृष्टं यथा परमाणुः यथा कर्म यथाकाशम् यथा तमो घटवत् यन्निष्क्रियं तदद्रव्यं दृष्टम् इति च
(प्रशस्त० २ पृ० ४८)। एवमन्वयदृष्टान्ताभासशब्दोपि व्याख्येयः। साधर्म्यम्-[क] समानधर्मः । यथा कमलमिव सुन्दरं मुखम् इत्यादौ
सौन्दर्य मुखकमलयोः साधर्म्यम् । यथा वा षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त०) इत्यादौ साधर्म्यशब्दार्थः ( न्या० कन्द० पृ० ६)। [ख] अनुगतो धर्मः ( वै० उ० ११११४ )। समानो धर्मः इति फलितोर्थः (मु० १ पृ० ४५ । यथा अस्तित्वम् ज्ञेयत्वम् प्रमेयत्वम् अभिधेयत्वं च द्रव्यादीनां सप्तानां पदा
र्थानां साधयं भवति । अत्र ज्ञेयत्वाभिधेयत्वादिशब्दानामीश्वरीयज्ञानविषयत्वाभिधाविषयत्वादिरूपोर्थः केवलान्वयित्वोपपत्त्यर्थ स्वीकर्तव्यः । भवति च तदेव सप्तपदार्थानां लक्षणम (मु० १ पृ० ४५)। वस्तुतः विषयत्वमेव सप्तपदार्थानां लक्षणम् । तेन ईश्वरानङ्गीकर्तृमतेपि जीवज्ञानविषयतादिकमादाय लक्षणसमन्वयः इत्यवधेयम् । यथा वा कारणत्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org