________________
न्यायकोशः ।
९९३
साधनम् - १ ( हेतुः ) सिद्धिजनकम् ( दि० गु० ) । अत्र जनकत्वं च जनकज्ञानविषयत्वम् इति वक्तव्यम् । तेन धूमज्ञानस्यैव सिद्धिजनकत्वेन धूमे सिद्धिजनकत्वाभावेपि न क्षतिः । यथा पर्वतो वह्निमान् धूमात् इत्यादौ धूमः साधनम् । २ [क] कारणम् ( मथुरा ० ) । यथा घटस्य साधनं दण्डः पटस्य साधनं तन्तुः इत्यादौ साधनशब्दार्थः । अत्र साधनत्वं द्विविधम् साक्षात्साधनत्वं परंपरासाधनत्वं चेति । तत्र साक्षात्साधनत्वं च अव्यवहितपूर्वत्व संबन्धेन कार्याधिकरणी भूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वम् । यथा स्वर्गेत्पत्ति प्रत्यपूर्वस्य साधनत्वम् । परंपरासाधनत्वं च अव्यवहितपूर्वत्व संबन्धेन कार्याधिकरणी भूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति कार्यनियतपूर्ववर्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वम् (मथुरा० ) । यथा स्मृति प्रत्यनुभवस्य साधनत्वम् । [ख] इतर कारणकलापे यदतिशयितं कारणम् तत्साधनम् इति मृध्वमतानुयायिन आहुः (प्र० च० पृ० १४ )। [ग] कारकत्वेनान्वयि साधनम् इति शाब्दिका वदन्ति । ३ सिद्धि: अनुमिति: । यथा पर्वते धूमेन वह्निसाधने इत्यादौ साधनपदार्थः । यथा वा द्रव्यत्वादेरपि धूमेन साधनात् ( गौ० वृ०५।१।२७ ) इत्यादौ साधनशब्दस्यार्थः ।
साधनवैकल्यम् - दृष्टान्ते साधनस्यावर्तमानत्वम् । अत्रेदं बोध्यम् । साधनवैकल्यायो निग्रहस्थानेन्तर्भवन्ति ( दि० १ ) इति । साधनाप्रसिद्धि: - ( हेतुदोषः असिद्धिः ) हेतौ हेतुतावच्छेदकस्याभावः । यथा पर्वतो वह्निमान् काञ्चनमयधूमात् इत्यादौ धूमनिष्ठः काञ्चनमयत्वाभावः साधनाप्रसिद्धिः ( म०प्र०२ पृ० २७ ) । इयं च साधनाप्रसिद्धिः व्याप्यत्वासिद्धिप्रभेद इति विज्ञेयम् ( नील० २ पृ० २६ ) ( मु० २ पृ० १६१ ) । तल्लक्षणं च साधने साधनतावच्छेदकवैशिष्ट्या वगाहि ग्रह विरोधिग्रह विषयत्वम् ( ल० व० ) । अत्र काचनमयधूमादिहेतुकस्थले हेतुतावच्छेदकविशिष्टहेतोर्ज्ञानाभावात् । तद्धेतुकव्याप्ति१२५ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org