________________
९९२
न्यायकोशः। वारणाय तद्भिन्नत्वे सति इति विशेषणं दत्तम् । अनुयोगितासंबन्धविवक्षणे तद्विशेषणं न देयमेव (दि. १ पृ० २७ ) इति । अत्रायं भावः । अनुयोगितासंबन्धेन तद्गतभूयोधर्मवत्त्वम् इत्येव तत्सादृश्यम् । तद्गतधर्मरूपसंबन्धे तदनुयोगिकत्वानभ्युपगमेनैव सादृश्यप्रतियोगिन्यतिव्याप्तिवारणसंभवात् तद्भिन्नत्वे सति इति विशेषणमनर्थकमेव (राम०१ पृ० २७ ) इति । अत्रेदं बोध्यम् । सादृश्यवाचकास्तु इवादिनिपाताः सदृशादिनामानि च सन्ति । तत्र इवादिभिर्निपातैः सादृश्यस्याभिधाने प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वमपेक्षितम् । यथा गौरिव गवयः चन्द्रमिव मुखं पश्यति इत्यादि । तुल्यसादृश्याख्यसंबन्धे चैकस्य प्रतियोगिता अन्यस्यानुयोगिता। तत्र प्रतियोगिन उपमानत्वम् अनुयोगिन उपमेयत्वम् इति । उपमानोपमेयभावस्य द्वयोः संभवेपि प्रसिद्धस्यैवोपमानता। तन्निर्णयादिकं तु कविकल्पलतायां दृश्यम् । सदृशादिनाम्ना तुलोपनातिरिक्तेन सादृश्यस्याभिधाने तु प्रतियोगिपदे तृतीया षष्ठी च स्यात् । यथा पित्रा पितुर्वा सदृशः पुत्रः इति । तुलोपमाभ्यां योगे तु षष्ठी शेषे इति सूत्रेण षष्ठ्येव स्यात् । यथा तुला देवदत्तस्य नास्ति उपमा कृष्णस्य नास्ति इति । पित्रा पितुर्वेत्यत्र षष्ठीविकल्पविधायकं सूत्रं तु तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ( पाणि० २।३।७२ ) इति ।
साधारणासाधारणविरुद्धधर्मभेदेन सादृश्यं त्रिविधम् (ल० म०)। साधकम्-१ ( हेतुः ) साध्यज्ञापकम् । यथा पर्वतो वह्निमान् धूमात् इत्यादौ पर्वते वह्नः साधको धूमः । २ साधनकर्ता। यथा साधकतम करणम् (पाणि० १।४।४२ ) इत्यादौ कारकविशेषः। ३ सिद्धिकारकः । यथा मन्त्रादिसिद्धिकारकः शिष्टः ( तत्रे )। ४ ज्योतिःशास्त्रज्ञास्तु जन्मतारावधिकानि षष्ठपञ्चदशचतुर्विंशनक्षत्राणि इत्याहुः । अत्रोक्तम् जन्मसंपद्विपक्षेमं प्रत्यरिः साधको वधः । मित्रं परममित्रं च जन्मद्णियेत्रिधा ॥ ( ज्यो० त० ) इति । साधकमानम्-१ सिद्धिः साध्यवत्तानिश्चयः ( दीधि० २ पक्ष० पृ०
१३३ ) । यथा नापि साधकबाधकमानाभावः पक्षत्वम् ( चि० पक्ष० पृ० ३२ ) इत्यादौ साधकमानशब्दस्यार्थः । २ साधकं प्रमाणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org