________________
न्यायकोशः। व्यक्तं सादृश्यमिष्यते ॥ (चि० ख० ३ पृ० २) इति । अत्र विप्रतिपत्तिः सादृश्यं च सप्तपदार्थातिरिक्तं वा न वा इति । तत्र सादृश्यं सप्तपदार्थातिरिक्तम् इति मीमांसकादय आहुः । तत् तदतिरिक्तः पदार्थो न भवति इति नैयायिकाः प्राहुः (चि० ख० ३ )। तत्र मीमांसकमते सादृश्यस्यातिरिक्तत्वे प्रमाणं च सादृश्यं न षड्भावेष्वन्तर्भवति । व्यतिरेकित्वे सति सामान्येतरवृत्तित्वे च सति सामान्यवृत्तित्वात् अभाववत् इति । सादृश्यमभावेपि नान्तर्भवति भावत्वेन प्रतीयमानत्वात् इत्यनुमानम् । तेन सादृश्यं क्लृप्तसप्तपदातिरिक्तं सिद्ध्यति इति । अत्र पदप्रयोजनम् । सामान्यत्वे व्यभिचारवारणाय सामान्येतरवृत्तित्व इति पदम्। प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकित्व इति पदम् । भावत्वे च द्रव्यादिषकान्यतमत्वरूपे हेतुमति साध्यस्य सत्त्वान्न व्यभिचारः इति । सादृश्यस्य सामान्यवृत्तित्वे प्रमाणं तु यथा गोत्वं नित्यम् तथाश्वत्वमपि नित्यम् इति सादृश्यप्रतीतिः । तथा च सादृश्यस्य द्रव्याद्यन्तर्भूतत्वे बाधकमपि यदि सादृश्यं द्रव्यादावन्तर्भूतं तदा द्रव्यादेः सामान्यावृत्तित्वेन यथा गोत्वं नित्यम् तथाश्वत्वम् इत्यबाधितप्रतीतिर्न स्यात् ( दि० १ पृ० २४ ) इति । नव्या अपि सादृश्यमतिरिक्तमेव । न च अतिरिक्तत्वे पदार्थविभागव्याघातः इति वाच्यम् । तस्य पदार्थविभागस्य साक्षात्परंपरया वा तत्त्वज्ञानोपयोगिपदार्थमात्रनिरूपणपरत्वात्। एवम् अधिकरणत्वम् विषयत्वम् प्रतियोगित्वम् इत्यादिकमप्यतिरिक्तः पदार्थः इत्याहुः (दि. १ पृ० २४-२८)। [ख] तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् । तच्च स्वरूपसंबन्धविशेषः (त० व० )। तथा च सादृश्यं नातिरिक्तमिति भावः । तद्भिन्नत्वे सतीत्यस्यार्थस्तु तद्गतभूयोधर्मसदृशधर्मवत्त्वम् । तेन चन्द्रवन्मुखम् इत्यादौ आह्लादजनकत्वरूपसादृश्यघटकजनकताया जनकभेदेन भिन्नतया चन्द्रगताह्लादजनकत्वस्य चन्द्रमात्रवृत्तितया मुखे तदभावेपि न क्षतिः । अत्र चन्द्रवन्मुखम् इत्यादौ धर्मे धर्मसादृश्यं च जनकतावादिना विज्ञेयम् । स च धर्मोनुगत एव इति । अवशिष्टं तु तुल्यत्वशब्दार्थे संपादितं तत्र द्रष्टव्यम् । अथ वा तत्र साधारण्येन विद्यमाना ये भूयांसो धर्माः तद्वत्त्वम् इति । अत्र सादृश्यनिरूपकेतिव्याप्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org