________________
न्यायकोशः। यथा साक्षात्कारे सुखादीनां करणं मन उच्यते (भा० प० श्लो० ८६) इत्यादौ साक्षात्कारशब्दस्यार्थः । अत्र साक्षात्कारत्वं च साक्षात्करोमि इत्यनुगतप्रतीतिसाक्षिको जातिविशेषः (न्या० म० १)।[ख]
लौकिकसंनिकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः । साक्षात्कारि—प्रत्यक्षात्मकं ज्ञानम् । यथा साक्षात्कारिप्रमाकरणं प्रत्यक्षम् ।
साक्षात्कारिणी प्रमा सैवोच्यते येन्द्रियजा (त० भा० पृ० ५ ) इत्यादौ
साक्षात्कारिशब्दस्यार्थः । साक्षात्संबन्धः-पारम्पयरहितः संबन्धः । यथा भट्टमते शब्दो द्रव्यम्
साक्षात्संबन्धेनेन्द्रियग्राह्यत्वात् घटवत् (न्या० म० ४ पृ० ३१) इत्यत्र साक्षात्संबन्धशब्दस्यार्थः । अत्र साक्षात्त्वं च इतरपदार्थाप्रतियोगिकत्वे सत्युद्दिष्टपदार्थप्रतियोगिकत्वम् इति । साक्षात्संबन्धश्च संयोग समवाय एतदन्यतरः ( त० प्र० ख० ४ पृ० १२६ ) । एवमन्योपि
चिन्त्यः। साक्षी–१ बोद्धृत्वे सति अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः
साक्षी । मायावादिवेदान्तिमते उपाध्युपहितं केवलं चैतन्यं साक्षि । यथा साक्षी चेताः केवलो निर्गुणश्च (श्रुतिः) इत्यादौ जीवेश्वरौ साक्षिणौ इति । तन्मते जीवसाक्षीश्वरसाक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् । तत्र जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तच्च जीवभेदेन नाना । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूतमायाया एकत्वात् इति । जीवेश्वरयोरन्तःकरणमायारूपतदुपाध्योजडत्वेपि तत्तदुपाधिवृत्तिचैतन्यस्यैव अवभासकत्वात्साक्षित्वमुपपद्यते ( वेदा० परि० १ पृ० १८ )। माध्वमते तु स्वरूपेन्द्रियं साक्षि न तु मनः । अत्र साक्षिलक्षणं तु आत्मस्वरूपज्ञानादिव्यञ्जकत्वमेव इति स्पष्टम् । अत्रोक्तम् प्रत्यक्षं सप्तविधम् साक्षिषडिन्द्रियभेदात् । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपतद्धर्मज्ञानसुखादयः भावरूपाविद्या मनस्तमश्च ज्ञानसुखाद्याः कालो व्याकृताकाशश्वेत्याद्याः । स च स्वरूपज्ञानादिकं व्यनक्ति (प्र० च० पृ० १५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org