________________
९८८
न्यायकोशः। साकाङ्कोदाहरणं तु चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्या ( महाभाष्ये २।१।१) इत्यादि । इदं च शाब्दप्रमितौ प्रयोजकम् । अत एव गौरश्वः पुरुषो हस्ती इति घटो घटः इति च निराकाङ्क्षवाक्यान्न शाब्दप्रमितिः इति विज्ञेयम् । अत्र पदानि साकाङ्क्षाणि अर्थाः साकाङ्क्षा वा इति प्रश्ने उत्तरमाह । अर्थास्तावत् स्वपदश्रोतरि अन्योन्यविषयाकासाजनकत्वेन साकाङ्क्षाः इत्युच्यन्ते । तद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणि इत्युच्यन्ते । यद्वा पदान्येव स्वार्थ प्रतिपाद्यार्थान्तरविषयाकाशाजनकानि इत्युपचारात् साकाङ्क्षाणि ( त० भा० पृ० १८ ) इति । २ साभिलाषत्वं
साकाड्डत्वम् इति काव्यज्ञा आहुः। . साकारत्वम्-१ धर्माश्रयत्वम् । ( मू० म० १)। यथा अयं घटः इति
ज्ञानस्य घटत्वाश्रयत्वम् । स्वनिष्ठप्रकारतानिरूपितप्रकारितासंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् इत्यर्थः । २ माध्वाः पौराणिकाश्च मूर्तिविशिष्टत्वम् । यथा परमात्मनः साकारत्वम् इत्याहुः । अयं भावः । मध्वमते परमात्मनोप्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण साकारत्वं संगच्छते । पौराणिकमते तु अपाश्चभौतिकेच्छास्वीकृतलीलाविग्रहवत्त्वेन
तस्य साकारत्वमुपपद्यते इति । साक्षात्-१ प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचित्तु
लौकिकप्रत्यक्षम् इत्याहुः । २ [क] मायावादिवेदान्तिनस्तु अव्यवहितम् ( बृह० उप० शांकरभा० ३।४।१ ) । तच्च सद्रूपं चैतन्यं इत्याहुः । यथा यत्साक्षादपरोक्षाद्ब्रह्म (बृह० उप० ३।४।१ ) इति श्रुतौ साक्षात् इत्यस्यार्थः । [ख] परंपरासंबन्धराहित्यम् । यथा द्रव्यत्वसाक्षाब्याप्या जातिः पृथिवीत्वम् इत्यादी साक्षात्शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं बोध्यम् । यथा च साक्षान्माता साक्षाद्भगिनी इत्यादौ साक्षात्शब्दार्थः। ३ तुल्यम् । यथा साक्षालक्ष्मीरियं वधूः इत्यादौ साक्षात्शब्दार्थः इति काव्यज्ञा आहुः ( अमर०
३।३।२४२)। साक्षात्कारः-[क] प्रत्यक्षात्मकं ज्ञानम् ( न्या० म० १ पृ० ३)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org