________________
न्यायकोशः।
९८७ योभिमानविशेषः सैवोपलब्धिः । स्रक्चन्दनादिविषयसंनिकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धरेव यः परिणामविशेषः स प्रत्ययः । अत एव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिबिम्बते परं बुद्धौ ( वै० उ० ८।१।१ पृ० ३५६ ) इति । तन्मते तत्त्वानि पञ्चविंशतिः मूलप्रकृतिः १ महत्तत्त्वम् २ अहंकारः ३ पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धाः ४-८ पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाः ९-१३ पञ्च ज्ञानेन्द्रियाणि चक्षुस्त्वग्रसनघ्राणश्रोत्राणि १४-१८ पञ्च कर्मेन्द्रियाणि पायूपस्थपाणिपादवाचः १९-२३ मनः २४ पुरुष-२५ श्चेति (सांख्यसू० अ० १ सू० ६१ )। तत्र चतुर्धा विभागः केवला प्रकृतिः केवला विकृतिः प्रकृतिविकृत्युभयम् अनुभयं चेति । तद्यथोक्तम् मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः ।। (सांख्यकारिका ३ ) इति । एतन्मते परिणामवादः। निरीश्वरसांख्यमते परमात्मा न स्वीक्रियते । अत्र शिष्टं तु मत्कृते षड्दर्शनसारनिरुक्तिनामके प्राकृतभाषाबद्धे चोपन्यासे दृश्यम् । ३ सांख्यशब्देन ज्ञानवानप्युच्यते । अत्रार्थे संख्या ज्ञानम् तद्वान् संख्यः (अच् ) स एव सांख्यः इति व्युत्पत्तिज्ञेया । तदुक्तं महाभारते संख्या प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः
प्रकीर्तिताः ॥ ( सांख्यभा० पृ० ८ ) इति। । सांवादिकः-संवाददाता । स च नैयायिकः ( जटा० ) ( वाच०)। सांसिद्धिकम-(द्रवत्वम् ) स्वभावनिवृत्तम् । निमित्तान्तराजन्यमित्यर्थः ।
यथा. जलनिष्ठं द्रवत्वं सांसिद्धिकम् । हिमादीनां घनीभावः कारणविशेषेण । द्रवीभावस्तु सांसिद्धिकः । घृतादीनां तु घनीभावः सांसिद्धिकः । द्रवीभावस्तु नैमित्तिकः इति तयोविशेषः। शिष्टं तु द्रवत्व
शब्दव्याख्यानादौ दृश्यम् । साकाङ्कत्वम्-१ अन्योन्यविषयाकाङ्क्षाजनकत्वम् (त० भा० ४ पृ०
१८)। यथा गामानय इत्यादी गवानयनयोः साकाङ्कत्वम् । नियत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org